________________
जैनेन्द्रव्याकरणम् ।
१३३ । खा ॥ ३८ ॥ खुविषये ईवन्तं सुबन्तेन सह षसो भवति । अरण्येतिलकाः। वृत्तिपदेन संज्ञा गम्यत इति नित्यः सविधिः। ईपोऽहल इत्यनुप । एवमरण्येमाषकाः । वनेकसेरुकाः। वनेवल्वजकाः। पूर्वाह्नस्फोटकाः । कूपेपिशाचिकाः।
तनाहोरात्रभेदाः ॥ ३९ ॥ भेदा अवयवाः । क्तान्तेन सह अहोरात्रभेदा ईवन्ताः षसो भवति । पूर्वाह्नकृतम् । अपराह्नकृतम् । पूर्वरात्रभुक्तम् । अपररात्रभुक्तम् । भेदग्रहणं किम् । उलू. खलैराभरणैः पिशाची यदभाषत । एतत्तु ते दिवा नृत्त रात्रौ नृत्तन्तु द्रक्ष्यसि ।
तत्र ॥ ४० ॥ तेनेति वर्तते। तत्रेत्येतत् क्तान्तेन सह षसो भवति । तबकृतम् । तत्रभुक्तम् । तत्रपीतम् । ऐकपचं प्रयोजनम् ।
क्षेपे ॥ ४१॥ क्षेपः कुत्सा। क्षेपे गम्यमाने ईबन्तं तान्तेन सह षसो भवति । कृद्ग्रहणे तिकारकपूर्वस्यापि । अवतप्तेनकुलस्थितं एतत् । कार्येष्वनवस्थितत्वं तवेदमित्यर्थः । षे कृति बहुलमित्यनुप । एवमुदकेविशीर्ण भस्मनिहुतम् । निष्फलं तवेदमित्यर्थः।
ध्वाङ्गैः ॥ ४२ ॥ क्तेनेति निवृत्तम् । क्षेप इति वर्तते । बहुवचनादर्थनिर्देशः। ध्वासवाचिभिः सुबन्तं षसो भवति क्षेपे ।