________________
( २६)
सस्कृत-व्याख्या 'जदत्थी' त्यादि सहितादिचर्च पूर्ववत् 'यद्' जीवादिक वस्तु अस्ति विद्यते णमिति वाक्यालङ्कारे,क्वचित् पाठो-'जदत्थि च ण' त्ति तत्रानुस्वार आगमिक च-शब्द पुनरर्थ एव च अस्य प्रयोगः अस्त्यात्मादिवस्तु-पूर्वाध्ययनप्ररूपितत्वात्, यच्चास्ति 'लोके' यश्चास्ति कायात्मके लोक्यते-प्रमीयते इति लोक इति व्युत्पत्त्या लोकालोकरूपे बा तत सर्व निरवशेष द्वयो' पदयो स्थानयो पक्षयोविवक्षितवस्तुतद्विपर्ययलक्षणयोरवतारो यस्य तद् द्विपदावतारमिति । 'दुपडोयार' त्ति क्वचित पठ्यते, तत्र द्वयो प्रत्यवतारो यस्य तद् द्विप्रत्यवतारमिति, स्वरूपवत प्रतिपक्षवच्चेत्यर्थ 'तद्यथे' त्यदाहरणोपन्यासे 'जीवच्चेव, अजीववच्चेव त्ति' जीवाश्चैवाजीवाश्चंव प्राकृतत्वात् सयुक्तपरत्वेन ह्रस्व , चकारी समुच्चयाथों एवकारोऽवधारणे, तेन च राश्यन्तरापोहमाह, नो जीवाख्य राश्यन्तरमस्तीति चेब, नैवम् सर्व-निषेधकत्वे नो-शब्दस्य नो जीवशब्देनाजीव एव पतीयते. देशनिषेधकत्वे तु जीवदेश एव प्रतीयते न च देशो देशिनोऽत्यन्त व्यतिरिक्त इति जीव एवासाविति, 'च्चेय' इति वा एवकारार्थ 'चिय च्चेय' एवार्थ इति वचनात् ततश्च जीवा एवेति विवक्षितवस्तु अजीवा एवेति च तत्प्रतिपक्ष इति, एव सर्वत्र अथवा यदस्ति अस्तीति यत् सन्मात्र यदित्यर्थः, तद् द्विपदावतार द्विविधं-जीवाजीवभेदादिति शेष तथैव । अथि त्रसेत्यादिकया नव सूत्र्या जीवत्वस्यैव भेदात् सत्प्रतिपक्षानुपदिश्यति-तसे चेवे' त्यादि तत्र वसनाम-कर्मोदितस्त्रस्यन्तीति त्रसा:-द्वीन्द्रियादय' स्थावरनामक र्मोदयात् तिष्ठन्त्येवशीलाः स्थावरा. पृथिव्यादयः, सह योन्या-उत्पत्तिस्थानेन सयोनिका'-ससारिणस्तद्विपर्यासभूताः अयोनिका:-सिद्धा: सहायुषा वर्तन्त इति सायुषस्तदन्येऽनायुष -सिद्धा, एव सेन्द्रिया'-ससारिण , अनिन्द्रिया.-सिद्धादय., सवेदका: स्त्रीवेदाधुदयवन्तः प्रवेदका सिद्धा