________________
( ३ )
केवलं शब्दानभिधेया, उत्प्रेक्षणीयापि न सभवतीत्याह - सभवत्पदार्थविशेषास्तित्वाध्यवसाय ऊहस्तर्क एवमेव चैतत्स्यात्, स च यत्र न विद्यते तत शब्दाना कुतः प्रवृत्ति स्यात् किमिति तत्र तर्काभाव इति चेदाह - मनन मतिः - मनसो व्यापार: पदार्थचिन्ता सौत्पत्तिक्यादिका चतुर्विधापि मतिस्तत्र न ग्राहिका, मोक्षावस्थाया सकल - विकल्पातीतत्वात्, तत्र च मोक्षे कर्माशसमन्वितस्य गमनमाहोस्विन्निष्कर्मणः १, न तत्र कर्मसमन्वितस्य गमनमस्तीत्येतद्दर्शयितुमाह - " प्रोज: " एकोऽशेष - मलकलाकरहितः, किं च न विद्यते प्रतिष्ठानमोदारिक-शरीरादेः कर्मणो वा यत्र सोऽप्रतिष्ठाणो मोक्षस्तस्य ' खेदज्ञो" निपुणो यदि वा अप्रतिष्ठानो नरकस्तत्र स्थित्यादिपरिज्ञानतया खेदज्ञो, लोक-नाडि- पर्यन्तपरिज्ञानावेदनेन च समस्तलोकखेदज्ञता आवेदिता भवति । सर्वस्वरनिवर्तन च येनाभिप्रायेणोक्तवास्तमभिप्रायमाविष्कुर्वन्नाह - 'स' परमपदाभ्यासी लोकान्तक्रोशषड्भागक्षेत्रावस्थानोऽनन्तज्ञानदर्शनोपयुक्ता सस्थानमाश्रित्य न दीर्घो न ह्रस्वो न वृत्तो, न त्र्यस्रो, न चतुरस्रो, न परिमडलो, वर्णमाश्रित्य न कृष्णो, न नीलो, न लोहितो, न हारिद्रो, न शुल्को, गन्धमाश्रित्य - न सुरभिगन्धो, न दुरभिगन्धो, रसमाश्रित्य न तिक्तो, न कटुको, न कषायो, नाम्ल न मधुरः, स्पर्शमाश्रित्य न कर्कशो, न मृदु, न लघुः, न गुरु., न शीतो, नोष्णो, न स्निग्धो, न रूक्षो, 'न काउ' इत्यनेन लेश्या गृहीता यदि वा न कायवान्. यथा वेदान्तवादिनाम् - एक एव मुक्तात्मा तत्कायमपरे क्षीणक्लेशा अनुप्रविशन्ति प्रादित्य- रश्मय इवाशुमन्तमिति, तथा न 'रुह्' बीज - जन्मनि प्रादुर्भावे "च" - रोहतीति - रुहः न रुहोऽरुहः कर्मबीजाभावादपुनर्भावीत्यर्थ न पुनर्यथा शाक्याना दर्शन - निकारतो मुक्तात्मनोऽपि पुनर्भवोपादानमिति, उक्त च
2
"
दग्धनः पुनरुपैति भवं प्रमथ्य, निर्वाणमप्यनवधारित-भीरुनिष्ठम् ।