________________
( ९३ )
सुगम, भगवानाह - गौतम । जघन्येनाप्यन्तर्मुहर्त्तमुत्कर्षतोऽप्यन्तर्मुहर्त्तम्, प्रयोगित्व नाम हि शैलेश्यवस्था तस्या नियमादनाहारक औदारिकादिकाययोगाभावात्, शैलेश्यवस्था च जघन्यत उत्कर्षतश्चान्तर्मुहूर्त, नवर जघन्यपदादुत्कृष्टमधिकमवसेयम्, अन्यथोभयपदोपन्यासायोगात् । ‘सजोगिभवत्थकेवलिप्रणाहारए ण भते ।" इत्यादि प्रश्नसूत्र सुगम, भगवानाह – गौतम । अजघन्योत्कर्षेण त्रय समया, ते चाष्टसामयिक - केवलिसमुद्घातावस्थाया तृतीयचतुर्थपञ्मरूपाः तेषु केवलकार्म्मणकाययोगभावात् उक्तञ्च -
-
कार्म्मणशरीरयोगी चतुर्थ के पञ्चके तृतीये च । समयत्रयेऽपि तस्माद्भवत्यनाहारको नियमात् ॥ १॥
साम्प्रतमन्तर चिन्तयन्नाह - - छउमत्थाहारयस्स ण भते । ' इत्यादि । छद्मस्थाहारकस्य भदन्त । अन्तर कालत कियच्चिर भवति ? भगवानाह - गौतम । जघन्येक समयमुत्कर्षतो द्वो समयो, यात्रानेव हि कालो जघन्यत उत्कर्षतश्च छद्मस्थानाहारकस्य तावानाहारकस्यान्तरकालः, स च कालो जघन्येनैक समय, उत्कर्षतो बाहुल्यमङ्गीकृत्य व्यवह्रियमाणाया त्रिसामयिक्या विग्रहगती द्वौ समयावित्याहारकस्याप्यन्तर तावदिति । केवल्याहारकप्रश्नसूत्र सुगमम्, भगवानाह - गौतम ! अजघन्योत्कर्षेण त्रय. समया', केवल्याहारको हि सयोगिभवस्थ केवली, तस्य चानाहारकत्व त्रीनेव समयान् यथोक्त प्रागित्यन्तर केवल्याहारकस्य तावदिति । सम्प्रत्याहारकस्यान्तर चिचिन्तयिषु प्रथमतश्छद्म स्थानाहारकस्याह'छउमत्थाणाहारयस्स ण भते ! ' इत्यादि प्रश्नसूत्र सुगमम्, भगवानाह —– गौतम । जघन्येन क्षुल्लकभवग्रहण द्विसमयोन, उत्कर्षतोऽसङ्खयेय काल यावदड, गुलस्यासङ्ख्येयो भागः, यावानेव हि छद्मस्थाहारकस्य कालस्तावानैव छद्मस्थानाहारकस्यान्तर, छद्मस्थाहारकस्य च जघन्यत कालोऽन्तर्मुहूर्त्तमुत्कर्षतोऽसङ्खयेया उत्सप्पिण्यवसविण्यः कालत, क्षेत्रतोऽड गुलस्यासङ्ख्येयो भागः, एतावन्त काल सततमवि