________________
(८६)
महर्तेन कस्यापि सम्यग्दर्शनावाप्ति-सम्भवात्, उत्कर्षेणानन्त कालं अनन्ता उत्सपिण्यवपिण्य कालत ,क्षेत्रतोऽपाध्दं पुद्गलपरावर्त देशोनम् । साम्प्रतमन्तर प्रतिपादयति- णाणिस्स ण भते !' इत्यादि, ज्ञानिनो भदन्त । अतर कालत' कियच्चिर भवति ?, भगवानाहगौतम | सादिकस्यापर्यवसितस्य नास्त्यन्तरम्, अपर्यवसितत्वेन सदा तद्भावापरित्यागात्, सादिकस्य सपर्यवसितस्य जघन्यतोऽन्तर्मुहूर्त, एतावता मिथ्यादर्शनकालेन व्यवधानेन भूयोऽपि ज्ञानाभावात्, उत्कर्षण अनन्त काल, अनन्ना उत्सपिण्य वसप्पिण्य कालत , क्षेत्रतोऽपार्द्ध पुद्गलपरावर्त देशोन, सम्यदृष्टे सम्यक्त्वात्प्रतिपतितस्यैतावन्त काल मिथ्यात्वमनुभूय तदनन्तरमवश्य सम्यक्त्वासादनात्-'अण्णाणिस्स ण भते ।' इत्यादि प्रश्नसूत्र सुगम, भगवानाह-गौतम । अनाद्यपर्यवसितस्य नाम्त्यन्तरम्, अपर्यवसितत्वादेव, अनादिसपर्यवसिनस्यापि नास्त्यन्नर अवाप्तकेवलज्ञानम्य प्रतिपाताभावात् । सादिसपर्यवसानस्य जघन्येनान्तर्मुहूर्त, जघन्यस्य सम्यग्दर्शनकालस्यैतावन्मात्रत्वात्, उत्कर्षत षटषष्टि सागरोपमाणि सानिरेकाणि, एतावतोऽपि कालावं सम्यग्दर्शनप्रतिपाते सत्यज्ञानभावात् । अल्पबहुत्वसूत्र प्राग्वत् । प्रकारान्तरेण द्वैविध्यमाह - 'अहवे' त्यादि, अथवा द्विविधा सर्वजीवा प्रज्ञप्तास्तद्यथा-साकारोपयुक्ताश्च, अनाकारोपयुक्ताश्च । सम्प्रति कायस्थितिमाह'सागारोवउत्ता ण भते' इह छद्मस्था एव सर्वजीवा विवक्षिता, न केवलिनोऽपि विचित्रत्वात् सूत्रगते' रिति द्वयानामपि कायस्थितावन्तरे चैकसामयिकोऽप्युच्येत । अल्पबहुत्व-चिन्ताया सर्वस्तोका अनाकारोपयुक्ता., अनाकारोपयोगस्य स्तोककालतया पृच्छासमये तेषा स्तोकानामेवावाप्यमानत्वात् । साकारोपयुक्ताः सङ्ख्येयगुणा , अनाकारोपयोगाद्धात. साकारोपयोगाद्धायाः सङ्खयेयगुणत्वात् ।