________________
€966@OSO69.60Eētoesko€€
पश्यत इत्याह-उत्पत्तीत्यादि 'आत्मा'-जीवः, 'कार्मणतैजसशरीराभ्याम् सह, 'उत्पत्तिकालादवसानसीमाम्'-जन्मकालादारभ्य अवसानपर्यन्तं, 'यत्' 'सृजेत्'-रचयेदिति यावत् ॥१५॥
मूलम्--गर्भस्थितः 'शुक्ररजोन्तरागतो यथोचिताहारविधानतो द्रुतम् ।
धातूंश्च सर्वानपि सर्वथा स्वय-मात्मा विधत्तेऽत्र 'विनाक्षवीर्यतः ॥१६॥ टीका-सृजनविषयमेव दर्शयति-गर्भस्थित इत्यादिना 'अत्र'-अस्मिन् संसारे 'आत्मा'-जीवः, 'सर्वथा'-सर्वप्रकारेण, 'स्वयं'-स्वत एव, अन्यप्रेरणमंतरेण चेतिभावः 'द्रुतं'-शीघ्रं, 'सर्वानपि'-सकलानपि, 'धातून'-रसादीन्, 'विधत्ते'-करोति, 'घ' कारश्चरणपूत्तौं, कुतः सृजतीत्याह-'यथोचिताहारविधानतः' इति-यथायोग्याहारकरणादित्यर्थः, कथंभूत आत्मा ? 'गर्भस्थित'गर्ने स्थिति प्राप्तः, कथं सृजतीत्याह-'विनाक्षवीर्यत' इति इन्द्रियशक्ति विनैवेत्यर्थः ॥१६॥
मूलम्-गर्भात्कृते जन्मनि सर्वदैव, गृह्णन् किलाहारमथोपलब्धम् ।।
ततस्ततस्तत्परिणामतः स्वयं, धात्वादि संपाय करोति पुष्टिम् ॥१७॥ टीका-पुनः किं करोतीत्याह-गर्भादित्यादि अथेत्यनंतरे, 'किले'ति-स्ववार्तायाम्' 'गर्भात्'-गर्भवशात् , 'कृते'रचिते, 'जन्मनि' 'सर्वदैव'-सदैव, 'उपलब्धम्'-प्राप्तम् , 'आहार'-भोजनं, 'गृह्णन्'-आददानः, 'ततस्ततस्तत्परिणामतः'-तत्त
१. वीर्यरक्तमध्य । २. इन्द्रियपलाद्विनापि । ३. तस्मात्तस्मात्तस्याहारस्य विपाकवशात् इत्यर्थः ।
3269086HB099696309999999
-
-