________________
युक्ता या पूर्णिमा तया च युक्तो यो ज्ञो बुधस्तस्मिन् , आश्विनमासस्य पूर्णिमायां तिथौ बुधवारे चेत्यर्थः, 'विजये योगे'-विजयनामके योगे, 'वाचकसूरचन्द्रविबुधः'-सूरचन्द्रनामा वाचक:-पण्डितोऽहं, 'वरपद्मवल्लभगणेः साहाय्यात्'श्रेष्ठस्य पञवल्लभनामकस्य गणेः सहायेन, 'एतं'-पूर्वोक्तम्, ' ग्रन्थम् '-सन्दर्भ, 'आदरात् '-आदरपूर्वकम्, 'पूर्ण | व्यधाम् '-पूर्ण कृतवान् , कथम्भूतम् ग्रन्थम् ? 'अमलम्'-निर्मलम् , सत्सिद्धान्तप्ररूपणेन विगतदोषमित्यर्थः, पुनः कथम्भूतम् ? ' प्रश्नोत्तरालङ्कृतम् '-प्रश्न-प्रतिवचनक्रमयोजनया शोभितम्, कस्मै प्रयोजनायेत्याह-अर्हदित्यादि ' अर्हत्प्रसादश्रियै '-अर्हतः प्रसादरूपा या श्री:-सम्पत् तस्यै, अर्हत्प्रसन्नतारूपलक्ष्मीप्राप्तय इतिभावः ॥ २३ ॥
эса аксесохасахым ж. सूरचन्दमनःस्थिरीकारे ग्रन्थग्रथनोत्पन्नपुण्यजनतासमर्पणस्वीयगच्छगच्छनायकसम्प्रदायगुरुनाम
स्वकीयगुरुभ्रात्रादिनामकीर्तनोक्तिलेश एकविंशतितमोऽधिकारः सम्पूर्णः॥
Educramoore
BOSS SSSROSTORG
जैनतत्त्वसारग्रन्थः सटीकः सम्पूर्णः॥ ग्रन्थमानं ४१००।
onnema
Pommm
.
.
१ पदैकदेशे पदसमुदायोपचारात् इति सूर इति सूरनाडी-सूर्यनाडीत्यर्थः, चन्द्र इति चन्द्रनाडीत्यर्थः, मन इति सुपुरणानाडीसू. चन यदन्तर्गतं मनः स्थिरीस्यात् । तथा च हठप्रदीपिका । मारुते मध्यसञ्चार मनःस्थैर्य प्रजायत इति । ततो मनःस्थिरीकार इति सुपुम्णोच्यते । आसां नाडीनां स्थिरीकारो यस्मिन्नित्येकस्थिरीकारशब्दालापाद्यथेष्टार्थप्राप्तिः पक्षे ग्रन्थकर्तृनामसूचनमिति ध्येयम् ॥