________________
'
कारणात् ' एतत् ' - पूर्वोक्तम्, ' तदीयं प्रतिबिम्बं कृत्वा ' - तत्सम्बन्धिनी प्रतिमां विधाय ' एवम् उक्तरीत्या, ' कथं पूज्यते ? ' - केन कारणेनाऽर्च्यते १ एवं करणे दोषमाह - अत्रेत्यादिना ' अत्र ' - अस्मिन् संसारे, ' तु' शब्दश्चरणपूर्ती, ' अतवस्तुनि ' - तदुद्भिन्नपदार्थे, 'यस्तद्ग्रहः ' - तत्पदार्थत्वेन ग्रहणमस्ति, ' स: 'दोपोऽपराधः, भवति, अभगवति भगवानयं इति या बुद्धिः सा दोषरूपा भवतीतिभावः ॥ ३८-३९ ॥
मूलम् -- साधुच्यतेऽदस्त्वयका विचारिणा- नाकारिणस्त्वाऽऽकृतिरेव नेष्टा । इदं तु यद्भागवतं हि बिम्बं तचावताराकृतिक्लुप्तरूपम्
1180 11
टीका - अस्योत्तरमाह - साध्वित्यादिना ' विचारिणा '- विचारशीलत्वेन, ' त्वयका '- त्वया, 'अद: ' - एतत्पूर्वोक्तमित्यर्थः, ' साधुच्यते ' - सत्यं कथ्यते, यत् ' अनाकारिण: ' - आकाररहितस्य पदार्थस्य, 'तु' शब्दचरण पूर्त्तो, ' एवे 'ति निश्रये, ' आकृतिः ' - आकार:, ' इष्टा ' - अभीष्टा, नास्ति 'तु ' - परन्तु, ' ही 'ति निश्रयेन, ' इदं ' - पूर्वोक्तम्, यत् ' भाग - वतं बिम्बं ' - भगवत्सम्बन्धिनी प्रतिमा, अस्ति 'च' - शब्दचरणपूत, 'तत्' - बिम्बम् ' अवताराकृतिक्ऌप्तरूपम् ' -अवतारस्य-भवस्य आकृत्या-आकारेण क्लृप्तां - समर्थितम् रूपं यस्य तत्, 'भवाकारापेक्षया ' - निर्मितस्वरूपमितिभावोऽस्ति ॥ ४० ॥ मूलम् - यादृक्तु संसारकृतावतारोऽभून्यासि ताहग्भगवान्महद्भिः ।
या या ह्यवस्था रुचिता च येभ्यः, साऽहो तदर्थैः परिपूज्यते तैः ॥ ४१ ॥ टीका - बिम्बस्यावतारा कृतिक्लप्स स्वरूपत्वे हेतुमाह - यादृगित्यादिना 'अहो ! ' - इत्यामन्त्रणे, 'तु' शब्दो विनिश्वये,