________________
990000690009990060606909009
FO ससपेण 'विचार' परामर्श विचारणीयं विषयमिति यावत् 'समूहे' विचारयामि ऊहापोहेन वितर्कयामीति भावः, । कथम्भूतं
विचारं ? 'कर्मा-ऽऽत्मपृच्छोत्तरदानपूर्व कर्मा-ऽऽत्मकविषयकप्रश्नोत्तरदानपूर्वम्, किं कृत्वा ? श्रीवर्धमानं प्रणिपन्य, कथम्भूतं a श्रीवर्धमानं ? 'संशुद्धसिद्धान्तं निर्मलसिद्धान्तयुक्तम्, पुनः कथम्भूतम् , 'अधीश जगतः स्वामिनम् , पुनः कथम्भूतम् ? 'इर्छ'
ज्ञानाधतिशयदीप्तम्, पुनः कथम्भूतं ? 'सत्य' सत्यस्वरूपं सत्यप्रवचनाधिपति वा, कस्मै प्रयोजनाय विचारं समूहे ? इति आह| 'स्वविदे' स्वज्ञानाय आत्मज्ञानवृद्धये इति भावः ॥१॥ कर्मात्मनो लक्षणम्
मूलम्-आत्मायमार्याः किल कीदृशोऽस्ति, 'नित्यो विभुश्चेतनवान रूपी।
तथा च कर्माणि तु कीदृशानि, जडानि रूपीणि 'चयाचयीनि ॥२॥ १ यद्यप्यात्मा द्रव्यास्तिकनयान्नित्यः पर्यायास्तिकनयादनित्यो देवाद्यन्यतरव्यपदेशलाभात् । परमिह तुसकर्मा-ऽकर्मकरूपसर्वजीवद्रव्यग्रहणोपयोगानित्यत्वेन ग्रहगम् । २ व्यापक केलिसमुद्रातादौ सर्वलोकाकाशव्यापकत्वात् , अन्यथा तु स्वकायमात्रव्याप्तत्वादपि विभुः । ३ चेतनाऽपि द्वेधा-सावरण-निरावरणमेदात् । सावरणशानं यथासम्भवं केवलादागन्यत् सर्वम् । केवलशानं हि निरावरणम् । इह हि चेतनामात्रग्रहणात् सर्वजीवसम्यन्धि ज्ञानं गृह्यते, तेन सर्वमपि जीवद्रव्यं चेतनवदिति चेतनावान जीव उच्यते । ४ रूपं सततमस्यास्तीति रूपी सर्वोऽपि पुद्गलधर्मा पदार्थः । न रूपी अरूपी अपुगलधर्मा जीवः । यद्यपि तेजसकार्मणशरीरसगतो जीवः सातिशयज्ञानवतां कपितया प्रत्यक्षस्तथापि चर्मचक्षुपां निरतिशयज्ञानवतामप्रत्यक्षलाभप्रायाऽलपीत्युच्यते । ५ पूरण-गलनस्वभावानि ।
300996969696966699399206006