________________
टीका - नास्तिकः प्राह - पूर्वमित्यादि ' यस्मात् ' - कारणात्, 'पूर्व' - पुरा 'मनः ' - चित्तम्, 'अविकार्यभूत् ' - विकाररहितमासीत्, 'तत्' - मनः, 'सांप्रतम्' - अधुना, 'यत्'- यस्मात् कारणात्, 'विकृतं बभ्रुव' - विकारयुक्तं, जावम्, 'अतः 'अस्मात् कारणात्, 'मिथः ' - परस्परम्, पूर्वी परस्मिन्नितिभावः, ' इयान् ' - एतावान्, 'भेदः - भिन्नत्वम् भवति, आस्तिक आह - स कस्येत्यादि ' सः ' - पूर्वोक्तः, कस्य, ' भेदोऽस्ति - भिन्नता भवति, नास्तिक आह-अयं मानसिक इति ' अयं ' - मनःसंबंधी भेदोऽस्तीतिभावः, अत्राऽस्ति को दूपणमाह - तदत्रेत्यादिना ' तत् ' - तर्हि, ' अत्र ' - अस्मिन् संसारे, ' मन: ' - चित्तं, ' दृश्यं ' - दर्शनीयम्, द्रष्टुमर्हतीतिभावः ' नास्ति ' - न विद्यते, ' वा '- अथवा, ' वर्णतः ' - वर्णद्वारा, न दृश्यमस्ति तर्हि ' कीदृग् ' - कीदृशं, 'निवेद्यं भवति ' - निवेदनीयमस्ति, निवेदनं कर्तुमर्हन्तीतिभावः ' इति ' - अस्मिन् विषये, 'भण्यताम् ' - कथ्यताम् त्वया, नास्तिकमते दूपणमाह-न दृश्यत इत्यादिना ' चेत् ' - यदि, यत् ' न दृश्यते ' - नाव - लोक्यते, तत् ' नहि वर्त्तते ' - नास्ति, तर्हि ' इह ' - उदाहृतपुरुषेपु, 'खानि ' - इंद्रियाणि, ' तान्येव ' - पूर्वाण्येव सन्ति, तत्तेषु ' विकारः - विकृतिः, ' कथं ' - केन प्रकारेण भवति ॥ ९-१० ॥
मूलम् - अयं विकारस्तु बभूव साक्षाद्, यं सर्व एते निगदन्ति तज्ज्ञाः ।
॥ ११ ॥
त्वं पश्य चेद्दृष्टपदार्थ केष्वपि, मोहो भवेदित्थमिहैव खानां तहन्द्रिज्ञानमिदं हि केन, सत्यं सता सर्वमितीव वाच्यम् । तदेव सत्यं यदिहोपकारिण, उपादिशन् दिव्यदृशो गतस्पृहाः ॥ १२ ॥