________________
मूलम् - सत्यं निगोदा अतिसूक्ष्मनाम - कर्मोदयात्सूक्ष्मतरा भवन्ति ।
एकां तनुं तेऽधिगता अनन्ता-स्तथाऽप्यदृश्या ननु चर्महग्भिः ॥ १५ ॥
टीका - अस्योत्तरमाह - सत्यमित्यादिना 'सत्यमि' ति - पूर्वोक्तं कथनं सत्यमस्तीत्यर्थः, निगोदजीवाः, 'अतिसूक्ष्मनाम - कर्मोदयात् ' - अतिसूक्ष्मनामकस्य कर्मण उदयेन, 'सूक्ष्मतराः ' - अतिसूक्ष्माः, 'भवन्ति' - जायन्ते, 'एकां तनुं' - एकं शरीरम्, ' अधिगताः - प्राप्ताः, ' ते ' - निगोदजीवाः, यद्यपि, अनन्ताः - अनन्तसंख्या भवन्ति, 'तथाऽपि ' - तदपि, ' नन्वि 'ति निश्चयेन, ' चर्महग्भिः ' - चर्मनेत्रैः, ' अदृश्याः ' - द्रष्टुमयोग्या भवन्ति ॥ १५ ॥
4
मूलम् - यथोग्रगन्धामृतदेहिरामठा - दिकोत्थगन्धो बहुधा यथा मिथो ।
श्लिष्टोऽभितिष्ठेन्न तदन्यवस्तुनः, सङ्कीर्णता नापि नभोभुवस्तथा ॥ १६ ॥
टीका -- घनीभावोऽपि नभसोऽसङ्कीर्णत्वविषये सदृष्टान्तमाह-यथोत्रेत्यादिना ' यथा ' - येन प्रकारेण, ' उग्रगन्धा - वचा, ' अमृतदेही ' - अमृतो जीवः, 'रामठः '- हिंगुः इत्यादिकैरेतत्प्रभृतिभिः, 'उत्थः - उत्पन्नो यो गंधः, 'यथे 'ति चरणपूत्तौ, 'मिथः ' - परस्परं, ' बहुधा ' - अनेकप्रकारैः, 'श्लिष्ट: ' - मिलितः, 'अभितिष्ठत् ' - तिष्ठति, परन्तु, 'तदन्यवस्तुनः' - तस्मादभिन्नस्य पदार्थस्य, 'सङ्कीर्णता ' -संकीर्णत्वं न भवति, 'तथे 'ति समुच्चये, 'नभोभुवः ' - आकाशभूमेरपि न
संकीर्णता भवति ॥ १६॥
१. वचा । २. कलेवर ।