________________
९४
जैन-शिलालेख-संग्रह शूरे विदुषि च विभजन्दान मानं च युगपदेकत्र । अविहितयाथातथ्यो जयति च सत्याश्रयः सुचिरम् ॥ ३ ॥ पृथिवीवल्लभशब्दो येपामन्यर्थता चिर जातः । तद्वगे (इये) पु जिगीषुपु तेषु बहुप्वप्यतीतेषु ॥ ४ ॥ नानाहेतिगताभिघातपतितभ्रान्ताश्वपत्तिद्विपे
नृत्यद्भीमकबन्धखड्गकिरणज्वालासहस्र रणे । लक्ष्मी वितचापलादिव कृता शौर्येण येनात्मसा
द्राजासीजयसिंहवल्लभ इति ख्यातचुलुक्यान्ययः ॥ ५ ॥ तदात्मजोऽभूद्रणरागनामा दिव्यानुभावो जगदेकनाथः । अमानुपत्व किल यस्य लोकः सुप्तस्य जानाति वपुःप्रकर्षात् ॥६॥ तस्याभवत्तनूजः पुलकेशी यः श्रितेन्दुकान्तिरपि । श्रीवल्लभोऽप्ययासीद्वातापिपुरीवधूवरताम् ॥ ७ ॥ यत्रिवर्गपदवीमल क्षितौ नानुगन्तुमधुनापि राजकम् । भूश्च येन हयमेधयाजिना प्रापितावभृयमज्जना बभौ ॥ ८ ॥ नलमौर्यकदम्बकालरात्रिस्तनयस्तस्य बभूव कीर्तिवर्मा । परदारविवृत्तचित्तवृत्तेरपि धीर्यस्य रिपुश्रियानुकृष्टा ॥ ९॥ रणपराक्रमलब्धजयश्रिया सपदि येन विरुग्णमशेषतः । नृपतिगन्धगजेन महौजसा पृथुकदम्बकदम्बकदम्बकम् ॥१०॥
तस्मिन्सुरेश्वरविभूतिगताभिलाषे ___ राजाभवत्तदनुजः किल मङ्गलीशः। यः पूर्वपश्चिमसमुद्रतटोषिताश्वः
सेनारजःपटविनिर्मितदिग्वितानः ॥ ११ ॥ १ 'सत्याश्रय' यह पुलकेशीका नामान्तर है।