________________
अल्तेमका लेख
अल्तेम (जिला कोल्हापुर)-संस्कृत । [शक ४११४८८ ..]
पहला पत्र । स्वस्ति ।। जयत्यनन्तसंसारपारावारकसेतय.
महावीरार्हतः पूतावरणाम्बुजरेणव. !! श्रीमता विश्व-विश्वम्भराभिसंस्त्यमानमानव्यसगोत्राणा हारीतिपुत्राणा सप्तलोकमातृभिस्सप्तमातृमिरमिवर्द्धितानां कार्तिकेयपरिरक्षणप्राप्तकल्याणपरम्पराणा भगवन्नारायणप्रसादसमासादितवराहलाञ्चनेमणक्षणवशीकृताशेपमहीभृताना ( भृताम् ) चालुक्यानां कुलमलकरिप्णो ॥ खभुजोपार्जितवसुन्धरस्य निजया श्रवणमात्रेणैवावनतराजकस्य कीर्तिपताकावभासितदिगन्तरालस्य जयसिंहस्य राजसिंहस्य (?) सूनुस्सूनृतवागनवरतदाना कृतकरस्तुरगज इब प्रशमनिविस्तपोनिधिवि दृप्तवैरिषु प्राप्तरणरागो रणरागोऽभवत् [1] तस्य चात्मजे श्वमेघनाव ( ०मेवाव) भृत (थ) स्नानपवित्रीकृतगात्रे प्रणतपरनृपतिमकुटनटघटितहटन्मणिगणकिरणवा राधौतचारुचरणकमलयुगले चित्रकण्ठाभिधानतुरङ्गमकण्ठीरवेणोत्सारितारातिस्तम्मेरममण्डले वर्णाश्रमसर्वधर्मपरिपालनपरे गङ्गासेतु(2) मध्यवर्तिदेशाधीश्वरे शक्तित्रयप्रवर्द्धितप्राज्यसाम्राज्ये गङ्गायमुनापालि
दूसरा पत्र; पहली और। ध्वजदडकाटिपञ्चमहाशब्दचिह्न करढीकृतचोल चेर-केरल-सिंहलकलिंगभूपाले दण्डितपाण्डयादिमण्डि (ण्ड ) लिके अप्रतिगासने 'सत्याश्रय'-श्री-पुलकेश्यभिधानपृथिवीवल्लभमहाराजाधिराजे पृथिवीमेकातपत्रं शासति सति [1] राजा रुन्द्रनीलसैन्द्रकवशशशाकायमानः