________________
७०
जैन-शिलालेख संग्रह क्तस्य मानव्यसगोत्रस्य हारितीपुत्रस्य प्रतिकृतचर्चापारस्य विबुधप्रतिविम्बाना कदम्बाना धर्ममहाराजस्य श्रीविजयशिवमृगेशवर्मणः विजयायुरोग्यैश्वर्यप्रवर्द्धनकर संवत्सरः चतुर्थः वर्षापक्षअष्टम तिथि पौर्णमासी अनयानुपूर्व्या अनेकजन्मान्तरोपाजितविपुलपुण्यस्कधः सुविशुद्धपितृमातृवश. उभयलोकप्रियहितकरानेकशास्त्रार्थतत्वविज्ञानविवेच्च (१) ने विनिविष्टविशालोदारमतिः हस्त्यश्वारोहणप्रहरणादिषु व्यायामिकीषु भूमिषु यथावत्कृतश्रम' दक्षो दक्षिण नयविनयकुशलः अनेकाहबाजितपरमदृढसत्व उदात्तबुद्धिधैर्यवीर्य्यत्यागसम्पन्न सुमहति समरसङ्कटे स्वभुजबलपराक्रमावाप्तविपुलैश्वर्य सम्यक्प्रजापालनपर. स्वजनकुमुदवनप्रबोधनगशाङ्क देवद्विजगुरुसाधुजनेभ्य गोभूमिहिरण्ययनाच्छादनान्नाटिअनेकविधढाननित्य विद्वत्सुहृत्स्वजनसामान्योपभुज्यमानमहाविभव आदिकालराजवृत्तानुसारी धर्ममहाराज कदम्बाना श्रीविजयशिवमृगेशवा कालवङ्गग्राम त्रिधा विभज्य दत्तवान् । अत्र पूर्वमर्हच्छालापरमपुष्कलस्थाननिवासिभ्य भगवदर्हन्महाजिनेन्द्रदेवताभ्य एको भाग , द्वितीयोहत्प्रोक्तसद्धर्मकरणपरस्य श्वेतपटमहाश्रमणसंघोपभोगाय, तृतीयो निर्ग्रन्थमहाश्रमणसंघोपभोगायेति । अत्र देवभाग धान्यदेवपूजावलिचरुदेवकर्मकरभग्नक्रियाप्रवर्त्तनाद्यर्थोपभोगाय । एतदेव न्यायलब्ध देवभोगसमयेन योभिरक्षति स तत्फल भाग्भवति, यो विनाशयेत् स पचमहापातकसयुक्तो भवति । उक्तश्च-बहुभिर्वसुधा भुक्ता राजभिस्सगरादिमि यस्य यस्य यदा भूमिस्तस्य तस्य तदा फल । नरवरसेनापतिना लिखित ।
[इ० ए०, जिल्ट ७, पृ० ३७-३८, नं० ३७] १ इन प्रतिलिपियोंमे विसर्ग उस चिह्नके स्थानमे लिखा गया है जो कण्ठ्यवर्गा ( Gutturals) से पहले विसर्गकी जगह प्रयुक्त हुआ है। २'देवभाग समयेन' शुद्ध पाठ मालम पटता है।