________________
हुम्मचके लेख
૩૦
सन्तापयत्येव तदन्नरङ्गम् श्रीमानसावोड्डुग-मण्डलेशः ॥ कुमार-चूडामणिरेप भाति श्री-ब्रह्म-देवो गुणवाननिन्द्यः । श्री- जैन-पादाम्बुज-युग्म-मृङ्गः यशोऽभिवेष्टयाखिळ-भूमि- मागः ॥ श्रीमद्-राक्षस - गङ्ग-मण्डलपतिः श्री गङ्ग-नारायणः दोर दण्ड-द्वय-वीर्य्य-भीपित-रिपुः श्री गङ्ग-पेनडि: । स्याद् यस्या जनको मनो निरुपमो विख्यात - कीर्त्तिध्वजः श्रीमच्चट्टल-देवि अत्र भुवने ख्याता वरीवृत्यते ॥ दृष्टे यत्र महोत्सवेक- निळ्ये पयजनाना मनः पुण्यं सञ्चिनुते -तरामतितरामहो हरत्यप्यलम् । पूजाभिः पृथुभिः पुनः प्रतिदिनं वाभाति योऽयं सदा श्रीमत्पञ्च- जिनालयो निरुपमो भक्त्या यया निर्मितः ॥ संसाराम्भोधिमव्यान् निरुपम गुण सद्-रत-मेदाधिवासम् • निर्वाण-द्वीपमा प्रतियत - मनसा पण्डिताना सुनीनां । कृत्या श्रीमज्जिनेन्द्राय - विलसित-नाचं व्यवाद् यक्षिणामन्मानस्तम्भोल्लसत्-कूवरमपि च वनान्यत्यि-साय दना ॥ आहारा भव-भैषज्य-शास्त्र- दानेर निरन्तर । श्रीमच्चद्दल देवीयं वाभाति नुवन- स्तुता ॥ रोहिणी चेळिनी सीता देवता च प्रभावती । श्रूयन्ते वार्त्तया सेय दृश्यन्ते विमलैर्गुणैः ॥ श्रीमद्रविळ- संधेऽस्मिन् नन्दिसंघेऽस्त्यरुङ्गळः । अन्यो भाति योऽशेप-शास्त्र- चाराशि-पारगैः ॥ यदू-वाग्वज्राभिघातेन प्रवादि-मद-भूभृतः । सञ्चण्णितास्तु भाति स्म हेमसेनो महामुनिः ॥