________________
जैन-शिलालेख संग्रह ___ खस्ति जित भगवता गतघनगगनाभेन पद्मनाभेन [1] श्रीमजाह्रवीयकुलामलव्योमावभासनभास्करः खखड्गकप्रहारखण्डितमहाशिलास्तम्भलब्धवलपराक्रमो दारुणारिगणविदारणोपलब्धव्रणविभूपणविभूपितः कण्वायनसगोत्रः श्रीमान् कोङ्गाणिवर्मधर्ममहाराजाधिराजपरमेश्वरश्रीमाधवप्रथमनामधेयः ॥ तत्पुत्रः पितुरन्वागतगुणयुक्तो विद्याविनयविहितवृत्तः सम्यक्प्रजापालनमात्राधिगतराज्यप्रयोजनो विद्वत्कविकाञ्चननिकषोपलभूतो नीतिशास्त्रस्य वक्तृप्रयोक्तूकुशलो दत्तकसूत्रवृत्ते प्रणेता श्रीमन्माधवमहाराजाधिराज ॥ तत्पुत्रः पितृपितामहगुणयुक्तो(s)नेकचतुर्दन्तयुद्धावाप्तचतुरुदधिसलिलावादितयश' श्रीमद्धरिवर्ममहाराजाधिराजः॥ अपिच ।। वृत्त ।।
आसीज्जगद्गहनरक्षणराजसिंहः क्ष्मामण्डलाजवनमण्डनराजहसः । श्रीमारसिंह इति बृहितबाहुकीर्ति
स्तस्यानुज कृतयुगक्षितिपालकीर्तिः ।। आदेशाद्देवचोलान्तकधरणिपतेर्गगचूडामणिस्त्वा वेगादभ्येति योद्धु त्यज गजतुरगव्यूहसन्नाहदर्पम् । गङ्गामुत्तीर्य गन्तु परबलमतुल कल्पयेत्पाप दूतैविज्ञप्त गूर्जराणा पतिरकृति तथा यत्र जैत्रप्रयाणे ॥ पद्माम्भोरुहभृङ्गभृत्यभरणव्यापारचिन्तामणि. संत्रासग्रहविह्वलीकृतरिपुदमापालरक्षामणिः विद्वत्कण्ठविभूपणीकृतगुणप्रोद्भासिमुक्तामणिदेवस्सज्जनवर्णनीयचरितश्रीगङ्गचूडामणि ॥