________________
१४१
- नूरका लेख
१२७ कोनूर(जिला धारवाड)-सस्कृत ।
[शक सं० ७८२-८६० ई०] श्रिय प्रियस्संगतविश्वरूपस्सुदर्शनच्छिन्नपरावलेपः। दिश्यादनन्तः प्रणतामरेन्द्रः श्रिय ममाद्यः परमां जिनेन्द्रः॥१॥ अनन्तभोगस्थितिरत्र पातु व. प्रतापशीलप्रभवोदयाचलः । सु-राष्ट्रकूटोर्जितवशपूजस्स वीर-नारायण एव यो विभु. ॥ २ ॥ नदीयभूपायतयादवान्वये क्रमेण वा वित्र रत्नसञ्चयः । बभूव गोविन्दमहीपतिर्भुवः प्रसाधनो पृच्छकराज-नन्दन. ॥ ३ ॥ इन्द्रावनीपालसुतेन धारिणी प्रसारिता येन पृथु-प्रभाविना । महौजसा वैरितमो निराकृत प्रतापशीलेन स कर्कर-प्रभुः ॥ ४ ॥ ततोऽभवदन्तिघटाभिमईनो हिमाचलाइजित-सेतु-सीमत.। खलीकृतोद्वृत्तमहीपमण्डल कुलाग्रणीः यो भुवि दन्तिदुर्ग-राट् ॥ ५॥ स्त्रयम्बरीभूतरणाङ्गणे ततस्स निर्व्यपेक्ष शुभतुङ्गबल्लभः । चकर्ष चालुक्यकुलश्रिय बलाद्विलोल-पालिध्वज-माल-भारिणीं ॥ ६ ॥ जयोञ्चसिंहासनचामरोजितस्सितातपत्रो प्रतिपक्ष राज्य(ज)हा । अकालवर्षोजितभूपनामको बभूव राजर्षिरशेषपुण्यतः ॥ ७ ॥ नतः प्रभूतवर्पोऽभूद्धारावर्षसुतश्शरैः । धारावर्षायित येन सग्रामभुवि भूभुजा ॥ ८॥ तस्य सुतः
यजन्मकाले देवेन्द्ररादिष्ट वृपभो भुव । भोक्तेति हिमवत्सेतु-पर्य्यन्ताम्बुधिमेखलाम् ॥ ९॥ ततः प्रभूतवपस्सन् स्वयम्पूर्णमनोरथः । जगत्तुङ्गस्सुमेरुर्वा भूभृतामुपरि स्थितः ॥ १० ॥