________________
१२८
जैन-शिलालेख संग्रह विन्ध्याद्रेः कटके निविष्ट-कटकः श्रुत्वा चरैय॑न्निजैः ख देश समुपागतः ध्रुवमिव ज्ञात्वा धिया प्रेरितः । माराश-महीपति तमगादप्राप्त-पूर्ती ( ३ ब) परैर् य्यस्येच्छामनुकूला ....धनैः पाद-प्रणामैरपि ।। नीत्या श्रीभवने घनाधन-धन-व्याप्ता परं प्रावपम् तस्मादागतवान् सम निज-बलैरा-तुगभद्रा-तटम् । तत्रस्थः ख-करागत प्रकृतिमिनिश्शेषमाकृष्टवान् विक्षेपैरपि चित्रमानत-रिपुर जग्राह त पल्लवात् ।। लेखाहार-मुखोदितार्द्ध-वचसा यत्रा..."वेडीश्वरो नित्यं किङ्करवद् व्यधादविरत ‘र्म स्वमात्मेच्छया । बाह्यालि-वृत्तिरस्य येन रचिता व्योमावलग्ना रुचम् चित्र मौक्तिक-मालिकामिव धृताम्मूई [न् ] इ ख-तारा-गणैः ।। सन्त्रासात् पर-चक्र-राजकमगात् तच्छुद्ध-सेवा-विधिव्यावद्धाञ्जलि-गोभितेन शरण मूर्धा यदधि-द्वयम् । यद्यादत्त परार्ध-भूपण-गणैर्नालङ्कत तत् तथा मा भैश्चिरिति सत्य-पालित-यशस्-स्थित्या यथा तद्गिरा ।। तेनेदमनिल-विद्युच्चञ्चलमवलोक्य जीवितमसारम् । क्षिति-दानमपरपुण्य प्रवर्तित देव-भोगाय ।। स ( ४ अ) च परम-भट्टारक-महाराजाधिराज-परमेश्वर-श्रीमद्-धारावपदेव-पादानुध्यात-परम-मट्टारक-महाराजाधिराज-परमेश्वर-पृथिवी-बल्लभ प्रभूतवर्प-श्रीमत्-गोविन्दराजदेवः।
भ्राताभूत् तस्य शक्ति-त्रय-नमित-भुवः शौचकम्भाभिधानो ज्येष्टस्त्यागाभिमान-प्रभृति-गुण-गणाधः-कृतादि-क्षितीगः । राजा राजारि-लोकास्थिर-तिमिर-घटा-पाटने शुद्ध-वृत्तः स श्रीमान् दिक्षु कीर्तिशशिविशद-रुचिस्स्थापिता येन भूयः ।।