________________
१२६
जैन-शिलालेख संग्रह ज्येष्ठोल्लवन-जातयाप्यमलया लक्ष्या समेतोऽपि सन् योऽभून्निर्मल-मण्डल-स्थिति-युतो दोपाकरो न कचित् । कर्णाधः-कृत-दान-सन्तति- (२ अ) भृतो यस्यान्य-दानाधिकम् दानं वीक्ष्य सु-लज्जिता इव दिशा प्रान्ते स्थिता दिग्गजाः ॥ अन्यैर्न जातु विजित गुरु-शक्ति-सार आक्रान्त-भूतलमनन्य-समान-मानम् । येनेह बद्धमवलोक्य चिराय गङ्गान् दूरे ख-निग्रह-भियेव कलिः प्रयातः ॥ एकत्रात्म-बलेन वारिनिधिनाप्यन्यत्र रुध्वा धनान् निष्कृष्टासि-भटोद्धतेन विहरद्-ग्राहातिभीमेन च । मातङ्गान् मद-वारिनिर्झर-मुच. प्राप्यानतात् पल्लवात् तचित्र मद-लेशमप्यनुदिन यस्स्पृष्टवान् न क्वचित् ।। हेला-स्वीकृत-गौड-राज्य-कमलान् चान्तःप्रविश्याचिराद् उन्मार्गे मरु-मध्यम-प्रतिवलों वत्सराजं बलैः । गौडीय शरदिन्दु-पाद-धवल-च्छत्र-द्वय केवलम् तस्मादाहृत-तद्-यशोऽपि ककुभा प्रान्ते स्थित तत्-क्षणात् ।। लब्ध-प्रतिष्ठमचिराय कलिं सुदूरम् उत्सायं शुद्ध-चरितैरिणी-तलस्य । कृत्वा पुनः कृत-युग-श्रियमप्यशेपम् चित्र कय निरुपमः कलि-वल्लभोऽभूत् ॥ प्राभू-(२ ब )द् धर्म-परात् ततो निरुपमादिन्दुर्य्यथा बारिधेः शुद्धात्मा परमेश्वरोन्नत-शिरस-ससक्त-पादस्तथा । पद्मानन्दकर. प्रताप-सहितो नित्योदयस्सोन्नतेः पूर्बारिव भानुमानभिमतो गोविन्दराजः सताम् ॥