________________
[९
जैन साहित्य संशोधक १ नागेन्द्र. २ चन्द्र ३ निवृत्ति ४ विद्याधराणां स्थाने १ सुंदर २ प्रभ ३ कनक ४ मेरु ५ सार ६ चंद्र ७ सागर ८ हंस ९ तिलक १० कलस ११ रत्न १२ समुद्र १३ कल्लोल १४ रंग १५ शेखर १६ विशाल १७ राज १८ कुमार १९ देव २० आनंद २१ आदित्य २२ कुंभ इति । ततः तेनैव कक्कसूरिणा अबूंदाचलमेखलायां तृपार्तस्य संघस्य डंड स्थापनेन जलं प्रगटि कृतं । तेनैव साधर्मिक वात्सल्ये जेसलपुरात् भरुकच्छे घृतो आनीतः।।
३५ तत्पट्टे श्रीदेवगुप्तसूरि । तत्पदमहोत्सवे पाठकाः पंच स्थापिता जयतिलकादि। तेन जयतिलकेन श्रीशान्तिनाथचरित्रं निर्मितं ।।
३६ तत्पट्टे सिद्ध सूरि। ३७ तत्पट्टे कक्क सूरि। ३८ तत्पट्टे देवगुप्तसूरि । ३९ तत्पट्टे सिद्धसूरि। ४० तत्पट्टे कक्क सूरि । ४१ तत्पट्टे देवगुप्तसूरि। सं०९९५ वर्षे बभूव ।
४२ क्षत्रीयवंशोत्पन्नत्वात् वीणावादने तत्परं क्रियाविषयं सिथिलः । ततः चतुर्विधसंघेन तत्पट्टे वीस विस्वोपकारकः स्थापितः श्रीसिद्धसूरिः ।
४३ तत्पट्टे कक्कसूरिः पंचप्रमाणग्रन्थकर्ता । ४४ तत्पट्टे संवत् १०७२ वर्षे श्रीदेवगुप्तसूरि । ४५ तत्पट्टे नवपद प्रकरण-स्वोपज्ञटीकाकर्ता सिद्धसूरि । ४६ तत्पट्टे कक्क सूरि । ४७ तत्पट्टे देवगुप्तसूरि । ४८ तत्पट्टे सिद्ध सूरि । ४९ तत्पट्टे कक्कसूरि ।
५० तत्पट्टे संवत् ११०८ वर्षे देवगुप्त सूरिभूव । भीनमाल नगरे साह भईसाक्षेन पद महोसवे सप्तलक्ष धन व्ययो कृतः। ततोः गुरुणा पादप्रक्षाल्येन जले विषापहार लब्धी येन भइसाक्ष श्रेष्ठिना श्री देवगुप्त सूरेः पद महोत्सवः कृतः। स पूर्व डिंडवाण पूरे भइसा भार्या छगणाणि स्थाप्यते ततो गुरूपदेशेन ज्वालितानि छगणानिरुप्यमयानि भवति ततो तेन रुप्येन गदहिया मुद्रा पातिता । भइसाक्ष माता श्री शत्रुजय यात्रागता खरच तुट्यते पत्तन मध्ये ईश्वरश्रेष्ठिनः पार्थे खरचो याचिता। तेन पृष्टं भवती कस्य माता तेन कथितं अहं भइसाक्ष माता । तेन हसितं अस्माकं गृहे पानीयमानयंति तेषां माता इति वित कितं। ततोऽनंतरं पश्चात् धनं गृहीत्वा यात्रां कृत्वा संघभक्ति कृत्वा गृहे जगाम । पुत्रेण प्रष्ट मातः मम कियभूमी नामं वर्तते । माता कथितं भवतां प्रतोली द्वारं यावन्नाममस्ति । तेन वचनेन असंतोषो जातः। श्रेष्टि हास्यवचनं कथितं । तद्वचनं वालयिस्यामि तदा द्वितीय वेला भोजयिप्यामि । एवं प्रतिज्ञां कृत्वा पत्तने सामान्यवेपे द्वार हट्टे गतः । भो श्रेष्टि रूप्यं ग्रहिप्यास । तेन कथितं रोषभरेण यत्किचिदानयिष्यसि तत्सर्वे गृह्णामि । संचकारो याचितः तेन युष्माभिर्दीयते सवालक्ष मुद्रिका दत्ता । ततो गर्दभयानि भारयत्वा पत्तने जगाम । पृष्टं एतत्कि रुप्यं वर्तते एवं श्रुत्वा श्रेष्टिनः चमत्कृताः स श्रीष्टि समग्र पत्तनश्रेष्टि मेल. यित्वा चरणे पपात । भइसाक्षस्तदेव कथितं गुर्जरधरीत्रीमध्ये महिषेण पानीयमानयेतुं तदा मोचयामि । तद्धनं देशे सप्तक्षेत्रे व्ययो कृतः । ततो गादिया इति शाखा जाता ।
५१तत्पट्टे श्री सिद्धसूरि । ५२ तत्पट्टे श्री कक्कसूरि संवत् ११५४ वर्षे वभूव । येन हेमसूरि कुमारपाल वचसा कृपाहीना मुनिवरा निष्कासिता ।
५३ तत्पट्टे देवगुप्तसूरि येन लक्ष द्रव्यं त्यजितं । ५४ तत्पट्टे श्री सिद्धसूरि । ५५ तत्पट्टे संवत् १२५२ श्री ककरिबभूव येन मरोट कोटः प्रगटी कृतं ।