________________
जैन साहित्य संशोधक कांतमणिर्यदमृतं स्तूते तच्चंद्रस्य प्रमाणं । सूर्यसारथी रविःआरूणः पंगोपि यदाकाशमुल्लंघयति तत्सूर्यस्य प्रमाणं । पुत्तालिका नृत्यं करोति तदिदजालिकस्य प्रमाणं । तथाऽहं मंदबुद्धिः मूर्खशिरोमणिः प्रमाणे सप्रमाणता नास्ति, लक्षणे सल्लक्षणता न, अलंकारस्याऽलंकरणं नहि, साहित्ये साहित्यं नास्ति, छंदासि सुछंदता न; एवंविधो पि वाचनाय साहसं करोमि तत् सद्गुरूणां प्रसादः। पुरातनैर्व्याख्या कृता। ममापि युक्तिः । कथं
जं देवो सायरो लहरिगज्जतनीरपडिपुन्नो । ता किंगामतलाओ जलमरिओ लहरिगा देऊ ॥ १॥ जइ भरह भावछंदे नच्चइ नवरंग चंगमा तरूणी। ता किंगामगहिल्ली तालिछंदेन नच्चेइ ॥ २॥ जइ दुद्धधवलखीरी तडफडइ विविहभंगेहि । ता कुक्कसकणसहिया रव्वडिया मा तडव्वडह ॥३॥ ___ अहं यद्वेमि तद्गुरूणां प्रसादः । टोलो रोलो रुलंतो अहियं विन्नाण नाण परिहीणो ।दिव्व वंदणिज्जो विहिओ गुरुसुत्तहारेण ॥४॥
ते गुरवः श्रीपार्श्वनाथसंतानीयाः । १ श्रीपार्श्वनाथशिष्यः प्रथमो गणधरः श्रीशुभदत्तः। २ तत्पट्टे श्रीहरिदत्तः । ३ तत्पट्टे श्रीआर्यसमुद्रः । ४ तत्पट्टे श्रीकेशीगणधरः तेन परदेशीनृपः प्रतिवोधितः । राजप्रश्नीयउपांगे प्रसिद्धः ।
५ तत्पद्देश्रीस्वयंप्रभसूरिः । (स्वयंप्रभसूरिशिष्य बुद्धकीर्तिसुं वौधमत नकिल्यो, आचारांग टीकासु जाणनो ) अन्यदा स्वयंप्रभसूरि देशनां ददतां उपरि रत्नचूडविद्याधरो नंदीस्वरे गच्छन् तत्र विमानः स्तंमितः । तेन चिंतितः मदीयो विमानः केन स्तमितः । यावत् पश्यति तावदधो गुरुदेशनाददंतं पश्यति । स चिंतयते मयाऽविनयः कृतः यतः जंगमतीर्थस्य उल्लंघनं कृतं । स आगतः गुरुं वंदति धर्म श्रुत्वा प्रतिवुद्धः । स गुरुं विज्ञपयति मम परंपरागता श्रीपार्श्वजिनस्य प्रतिमास्ति तस्या वंदने मम नियमोऽस्ति सा रावणलंकेश्वरस्य चैत्यालये अभवत्। यावत् रामेण लंका विध्वांसता तावद् मदीयपूर्वजेन चंद्रचूडनरनाथेन वैताव्य आनीता। सा प्रतिमा मम पाश्चस्ति। तया सह अहं चारित्रं ग्रहीष्यामि। गुरुणा लाभं ज्ञात्वा तस्मै दीक्षा दत्ता । क्रमेण द्वादशांगी चतुर्दश पूर्वी वभूव गुरुणा स्वपदे स्थापितः। श्रीमद्वीरजिनेश्वरात् द्विपंचाशतवर्षे (५२) आचार्य पदे स्थापितः । पंचाशतसाधुभिसह धरां विचरति । श्रीलक्ष्मीमहास्थानं तस्याभिधानं १ पूर्व नाम गुजरातिमध्ये कृतयुगे रयणमाला २ त्रेतायुगे रयणमाला ३ द्वापरे श्रीवीरनयरी ४ कलियुगे भीनमाल ६ तत्र श्रीराजाभीमसेन तत्पुतश्रीपुंज तत्पुत्र उत्पलकुमार अपरनाम श्रीकुमार तस्य वांधव श्रीसुरसुंदर युवराज राज्यमारधुरंधर । तयोरमात्य चांद्रवंशीय द्वौ भ्राता तत्र निवासी सा०उहड १ उद्धरण २ लघु भ्राता गृहे सुवर्ण संख्या आप्टादश कोट्यः संति । वृदभ्रातुहे ९९ नवनवति लक्षा संति । ये कोटीश्वरास्ते दुर्गमध्ये वसंति ये लक्षश्वरास्ते बाह्ये वसंति । तत ऊहडेन एकलक्ष भ्रातुः पार्थे उच्छीणे याचितं । ' ततो वांधवेन एवं कथितं भवते विना नगरं उध्वसमस्ति, भवतां समागमे वासो भविष्यति । एवं ज्ञात्वा राजकुमार ऊहडेन आलोचितवान् नूतनं नगरं वसेयं ततो मम वचनं अग्रे आयातः । ढीलीपुरे राजा श्री साधु तस्य उहडेन ५५ तुरंगमा भेटिकृता उवएसा संतुष्टो ददौ । ततो भीनमालात् अष्टादश १८ । सहस्र कुटुंव अगात् । द्वादश योजना नगरी जाताः। तत्र श्रीमद्रत्नप्रभसूरीपंचसयासीप्य समेत लुणद्रही समायाति । मासकल्प अरण्ये स्थिता । गोची मुनीश्वरा ब्रजति परं भिक्षा न लभते । लोका मिथ्यात्व वासिताः यादृशा गता तादृशा आगता मुनीश्वराः । पाताणि प्रतिलेप्य मासं यावत् संतोषेण स्थिताः पश्चात् विहारः कृतः । पुनः कदाचित् तत्रायातः । शासनदेव्या कथितं भो आचार्य अत्र चतुर्मासकं कुरु ।