________________
जैन साहित्य संशोधक
[ भाग १
7
हेमसूरिपदपङ्कजहंसैः श्रीमहेन्द्रमुनिवैः श्रुतमेतत् । वर्द्धमान- गुणचन्द्र: गणिभ्यां साकमाकलितशास्त्ररहस्यैः ॥ यावन्निहताखिलसन्तमसौ नभसि चकास्तो रविचन्द्रमसौ । तावत्-हेमकुमारचरित्रं साधुजनो वाचयतु पवित्रम् ॥ विमलमतिसुघार्चिर्नेमिनागाद्द्गजन्माऽभवद्भयकुमारः श्रावकः श्रेष्ठिमुख्यः ।
अथ निजकरपद्मप्राप्तघमर्थपद्मा विजितपदकपद्या तस्य पद्मोति पत्नी ॥
तत्पुत्रा गुणिनो ऽभवन् भुवि हरिश्चन्द्रादयो विश्रुताः श्रीदेवीप्रमुखाच धर्मधिपणापात्राणि तत्पुत्रिकाः । तत्प्रीत्यर्थमिदं व्यधायि तदुपहरागच्छष्टात्मभि ( ? ) - भूयिष्टानि च पुस्तकानि ........ ..... सोऽलेखयत् " शशिजलधिसूर्यवर्षे शुचिमासे रविदिने सिताष्टम्याम् | जिनधर्मप्रतिबोध: क्लृप्तोऽयं गुर्जरेन्द्रपुरे || प्रस्तावपञ्चकेऽप्यत्राष्टौ सहस्राण्यनुष्टुभाम् । एकैकाक्षरसंख्यातान्यधिकान्यष्टभिः शतैः ॥
संवत् १४५८ वर्षे द्वितीयभाद्रपदवृदि ४ तिथौ शुक्रदिन श्रीस्तंभतीर्थे वृहद्ध ( वृद्ध ) पौपधशालायां भट्ट • श्रीजयतिलकसुरीणां उपदेशेन श्रीकुमारपाल प्रतिवाद्यपुस्तकं लिखितमिदं ॥ कायस्थ ज्ञातीयमहं मंडलिकमुत पेतालिखितं ॥ चिरं नंदतु || छ | उ० श्रजियप्रभगणिसप्य ( शिष्य ) उ० श्रजियमंदिरगणि सध्य ( शिष्य ) भट्टा० श्रीकल्याणरत्नसूरिगुरुभ्यो नमः पं० व (वि) द्यारत्नगाणि ।
सोमप्रभाचार्य रचित शतार्थवृत्तकाव्यनी टीकाना प्रारंभमां नीचे प्रमाणे ५ लोको आपवामां आ व्या के जेमां १०० अर्थोनी अनुक्रमणिका आपवामां आवी छे.
अत्र स्तुताचतुर्विंशतिजिना: सिद्ध-सूर्य उपाध्यायाः । मुनि-पुण्डरीक - गौतम - सुधर्म - पञ्चव्रती - समयाः ॥ श्रुतदेवी - पुरुषार्थाः विधि - नारद - देव - विष्णु - चलभद्राः । श्रीः प्रद्युम्नश्चक्र शङ्ख- शिव - गिरिसुता - स्कन्दाः || हेरम्बः कैलाशो प्रह - दिक्पाला जयन्त- घन-मदिराः । कनका- Sब्धि-सिंह- हय-करि- सरोज-भुजगाः शुको ऽरण्यम् ॥ मानसरो--S-वैद्या - निलसुत - पत्नी - महा. गुरुचतुष्कम् । जयसिंह कुमारनृपाः जयदेवो मुलराज || थोसिद्धपालकावि रजितदेवसूरि-र्गुरुर्विजयसिंहः । ताच्छप्यः सोमप्रभरिश्च शतार्थवृत्तकविः ॥
शतार्थवृत्तनी वृत्तिना अंतमां सोमप्रभाचार्यना पिताविगेरेना उल्लेखवाला जे लोको आप्या छे ते नीचे प्रमाणे छे.
म एव शिष्यः स्वरुतैः कपिश्वैर्गुरो गरिम्ना जितकाञ्चनादेः | गृहस्थभावा-ऽन्वयकीर्तनेन व्यनक्ति भक्ति पुनरुक्तमेताम् ॥ प्राग्वाटान्वयनीरराशिरजनीजानिर्जिनाचपरः संजातो जिनदेव इत्यभिधया चूडामणिर्मन्त्रिणाम् । यस्यौदार्य-विवेक विक्रम दया दाक्षिण्य- पुण्यैर्गुणैः । साम्यं लब्धुमहर्निश जगदपि विलयन्न विभ्राभ्यति ॥
तस्याऽऽत्मजः सुजनमण्डलमौलिरत्नमुज्जृम्भितेन्द्रियजयोऽजनि सर्वदेवः । एकस्थ सर्वगुण निर्मित कौतुकेन धात्रा रुतोऽयमिति यः प्रथितः पृथिव्याम् ॥
सूनुस्तस्य प्रथमकमलादर्पण: पुण्यकामः कौमारेऽपि स्मरमदजयी जैनदीक्षां प्रपन्नः । विश्वेस्याऽपि श्रुतजलनिधेः पारमासाद्य जज्ञे श्रीमान् सोमप्रभ इति लसत्कीर्तिराचार्यवर्यः ॥ यो गृह्णाति समश्रुतं चइति यस्तत्कद्भुतं पाटवं काव्यं यस्त्वरितं करोति तनुते यः पावनीं देशनाम् । योऽयध्नान् सुमतेश्चरित्र + + भट्टाः सूक्तिपंक्तिपरां श्रीसोमप्रभसूरिरेष वृत्ते शतार्थं व्यधनं ॥