________________
श्री जैन पूजा-पाठ संग्रह
द्रव्याष्टक। सिद्धौ निवासमनगं परमात्म्यगम्यं. हान्यादि-भावरहितं भववीतकायं । रेवापगावरसरोयमुनोद्भवानां ,
नीरैर्यजे कलशगैर्वरसिद्धचक्र ॥१॥ ओहीं सिद्धचक्राधिपतये सिद्धपरमेष्टिने जन्ममृत्युविनाशनाय जलं०
आनंदकंदजनकं घनकर्ममुक्त, सम्यक्त्वशर्मगरिमं जननार्तिवीतं । सौरभ्यवासितभुवं हरिचंदनानां,
गंधैर्यजे परिमलैर्वरसिद्धचक्रम् ॥२॥ श्री ह्रीं सिद्धचक्राधिपतये सिद्धपरमेष्टिने समारनापविनाशनाय चं०
सर्वावगाहनगुणं सुसमाधिनिष्ठं, सिद्ध स्वरूपनिपुणं कमलं विशालं । सौगंध्यशालिवनशालिवराक्षतानां,
पंजैर्यजे शशिनिभवरसिद्धचक्रम् ॥३॥ ओं ह्रीं मिद्धचक्राधिपतये मिद्धपरमष्टि अक्षयपदप्राप्रये अक्षनं.
नित्यं स्वदेहपरिमाणमनादिसंज्ञं. द्रव्यानपेक्षममृतं मरणाद्यतीतम् । मंदारकुंदकमलादिवनस्पतीनां, पुष्पैर्यजे शुभतमैर्वरसिद्धचक्रम् ॥४॥