________________
२४
श्री जैन पूजा-पाठ संग्रह स्वस्ति त्रिलोकगुरवे जिनपुंगवाय, स्वस्ति स्वभावमहिमोदयसुस्थिताय । स्वस्ति प्रकाशसहजोर्जितदृङ्मयाय, स्वस्ति प्रसन्नललिताद्भुतवैभवाय ॥२॥ स्वस्त्युच्छलद्विमलबोधसुधाप्लवाय, स्वस्ति स्वभावपरभावविभासकाय । स्वस्ति त्रिलोकविततैकचिदुद्गमाय. स्वस्ति त्रिकालसकलायतविस्तृताय ॥३॥ द्रव्यस्य शुद्धिमधिगम्ययथानुरूपं. भावस्य शुद्धिमधिकामधिगंतुकामः । आलंबनानि विविधान्यवलंब्य वल्गन, भूतार्थयज्ञपुरुषस्य करोमि यज्ञं ॥४॥ अर्हत्पुराणपुरुषोत्तमपावनानि, वस्तून्यनूनमखिलान्ययमेक एव । अस्मिन् ज्वलद्विमलकेवलबोधवह्नौ, पुण्यं समग्रमहमेकमना जुहोमि ॥५॥