________________
२२
श्री जैन पूजा-पाठ संग्रह।
-
( यहां पुष्पांजलि क्षेपण करना)
अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा । ध्यायेत्पंचनमस्कारं सर्वपापैः प्रमुच्यते ॥१॥ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ॥२॥ अपराजितमंत्रोऽयं सर्वविघ्नविनाशनः । मंगलेषु च सर्वेषु प्रथमं मंगलं मतः ॥३॥ एसो पंचणमोयारो सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं पढम होइ मंगलं ॥४॥ अहमित्यनरं ब्रह्मवाचकं परमेष्ठिनः । सिद्धचक्रस्य सद्वीजं सर्वतः प्रणमाम्यहं ॥५॥ कर्माष्टकविनिर्मुक्त मोक्षलक्ष्मीनिकेतनं । सम्यक्त्वादिगुणोपेतं सिद्धचक्र नमाम्यहं ॥६॥ विघ्नौघाः प्रलयं यान्ति शाकिनीभूतपन्नगाः । विषो निर्विषतां याति स्तूयमाने जिनेश्वरे ॥७॥