________________
सर्गः। श्रीमन्मेरुतुङ्गसूरिविरचितं १७५
[अथ प्रशस्तिः ] तथा चसर्वव्याकरणप्रमाणपटवो न्यायस्फुरत्फक्किका
निष्णाता गुरवोऽभवन्न तु कृतिस्तेषां हि मिथ्या भवेत् । एष प्रत्यय एव मेऽस्ति सुचिरं तेषां पदाब्जद्वयी
सेवातो बहुलप्रयोगरचनास्पष्टोपयोगस्पृशाम् ॥ १॥ अन्येषां मतिमूढतापहृतये व्याख्यामधीतां मुखात्
तेषामेव तथा विचार्य विबुधैः सार्ध प्रयत्नेन च । स्पष्टार्था लिखिता व्यधीयत परावर्तः प्रयोगेषु यत्
क्वापि कापि तदस्तु मा गुरुवचश्वर्चाव्यलीकं मम ॥२॥ व्याख्या लेखि मया मृषाऽत्र खलु या शोध्यैव सा सद्बुधै
य॑ङ्ग्यानि प्रकटीकृतान्यनुपदं गूढानि नो यान्यपि । ज्ञेयानि स्वयमेव तान्यनलसैः स्पष्टं परेषामपि . ___ ज्ञाप्यानि प्रकटोपकारकृतये प्राप्तावतारै वि ॥ ३ ॥ वर्षे चन्द्रनिधानपूर्वकलिते १४९१ श्रीविक्रमार्कात्तथा
चैत्रान्तर्वदिपञ्चमीबुधदिने श्रेष्ठाऽनुराधायुते । श्रीजैनोज्वलमेघदूतसुबृहत्काव्यस्य पूर्णाऽभवत्
टीका श्रीअणहिल्लपाटक इति ख्याते क्षितौ पत्तने ॥४॥ पूज्यश्रीगुरुमेरुतुङ्गगणभृद्भुतं लम्भितः
श्रीमच्छ्रीजयकीर्तिसूरिगुरुभिस्तत्पटलब्धोदयैः । वात्सल्यात्परिपाठितश्च कृतवान् श्रीकाव्यटीकामिमा
माचार्यः किल शीलरत्न उदितां स्वाल्पिष्ठबुद्धर्मिताम् ॥५॥ एतस्याः किल वृत्तेः, श्रीमन्माणिक्यसुन्दराचार्याः । विधुः शोधनमवहित-मतयो बहुसमयतत्त्वज्ञाः ॥६॥