________________
प्रस्तावना.
हीनं दीनं सुभग! विरहात् ते धुताऽऽहारनीरं __ पश्येदं मे वपुरुपचितिं याति नान्यः प्रयोगैः । जाने नाहं वहु निगदितुं त्वद्वियोगार्तिजातं
कार्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ ३१ ॥
नीरागं मे समजनि मनो ज्ञाततत्त्वस्वरूपं
तेनेदानीं न विपयरसो बाधते कुत्रचिन्माम् । पश्याम्येनामपि वनसमां चित्रशालां खलूच्चै
र्यामध्यास्ते दिवसविगमे नीलकण्टः सुहृदः ॥ ८६ ।।
अज्ञानं मे सपदि गलितं मोहमूर्छाऽप्यनेश
जातं चित्तं मुतनु ! मम तन्निर्विकारं क्षणेन । स्वस्त्रा मृत्योरिव हि जरसा ग्रस्यमानं तनुं स्वां मन्ये जातां तुहिनमथितां पद्मिनी वाऽन्यरूपाम् ॥१०॥
x x x x x भद्रे ! भद्रं भवतु सततं ते जिनेन्द्रप्रसादाद्
नन्तुं पादानथ निजगुरोरेष यास्यामि शस्यान् । ध्यायन्त्यै श्रीजिनपरिवृढं शीलरत्नेन शश्वद्
मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ १२३ ॥
कोशाऽपि श्रीजिनमतरता शीलमाराव्य सम्यक्
पत्युः स्नेहादिव दिविषदां धाम सा त्राग् जगाम । आपद् व्यापद्रहितमतुलं तत्र सा तं विशेषा
दत्राऽमुत्र प्रदिशति सुखं प्राणिनां जैनधर्मः ॥ १२९॥
द्रने रङ्ग रतिकलतरे स्तम्भतीर्थाऽभिधाने
वर्षे हर्षाज्जलधिभुजगाऽम्भोधिचन्द्रप्रमाणे ।