________________
सर्गः।] श्रीमन्मेरुतुङ्गसूरिविरचितं तिस्ताराचक्रेण सह मेरुमनु भ्रमति । श्रोणेरूवं श्रोणिद्वयसं "वोर्ध्व दनवयसट् (सि० ७-१-१४२) द्वयसटप्रत्ययः, अभ्रमदित्यत्र अद्यतनी हस्तनी वा, हस्तन्यां "भ्रासभ्लास"(सि० ३-४-७३) इति विकल्पेन शव , अद्यतन्यां लदित्वाद् अङ् । अत्रोदात्तोपमानुप्रासाः ॥ ४२ ॥ पत्याकूतं यदुपतिगृहाः संविदाना मदाना
मायं बीजं निवसितसितश्लक्ष्णपत्तोर्णवयोः । दृक्कोणेन त्रिभुवनमपि क्षोभयन्त्यः परीयुः ।
कर्मापेक्षाः परमपुरुषं मोहसेनाः प्रभुं तम् ॥ ४३ ॥ 'यदुपतिगृहाः' कृष्णान्तःपुर्यः तं प्रभुं 'परीयुः परिवृतवत्यः । किंरूपा यदुपतिगृहाः? 'पत्याकूतं पत्यभिप्राय 'संविदानाः'जानन्यः, पुनः किंरूपाः ? मदानामाचं 'बीज' कारणम् , पुनः कथंभूताः ? 'निवसितसितश्नक्ष्णपत्तोर्णवर्णाः' निवसितानि परिहितानि सितानि श्वेतानि श्लक्ष्णानि मृदूनि पत्तोर्णानि धौतवस्त्राणि तैर्वाः , ( पुनः किंभूताः? ) 'दृक्कोणेन' नयनप्रान्तभागेन त्रिभुवनमपि क्षोभयन्त्यः, कर्म विलासकर्म अपेक्षन्त इति कर्मापेक्षाः, पुनः किंभूताः ? मोहस्य सेना इव मोहसेनाः । किंरूपं तम् ? परमपुरुषम् , पक्षे यथा मोहसेनाः परमपुरुषं आत्मानं परियन्ति, किंरूपा मोहसेनाः ? कर्म ज्ञानावरणादि तदपेक्षन्त इति कर्मापेक्षाः । संविदाना इति 'विदक् ज्ञाने" संपूर्वः संवदन्तीत्येवंशीलाः "वयःशक्तिशीले” (सि०५-२-२४) इति शानप्रत्ययः । अत्रानुप्रासरूपकश्लेषातिशयोक्तयः ॥ ४३ ॥ तासां लीलोल्ललनजनिता गुन्दलन्ति स तोय
ध्वाना वीचिप्रचलनलिनीनायिकाः साध्वनृत्यन् । श्रोत्रापेयं मधुकरकुलैर्गीयते सातिरक्तं,
तस्येत्यासीदिव नवरसा शुद्धसङ्गीतरीतिः ॥ १४ ॥ उत्प्रेक्ष्यते-'तस्य' भगवतः 'इति नवरसा शुद्धसङ्गीतयेतिः