SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा नन्दिमणीकार कथा ॥२८॥ 柴晓晓晓器继晚晚继盛號號選號器晚晚滋张晓晓晓晓晓望 त्वया मधुरया वाचा, यदसौ प्रीणितः पुरा । मया हतो वराकस्तु, स्नेहवैरे ततस्त्वम् ॥ ३२ ॥ यास्यत्येष हली तु पुद्रलपरावर्ता मध्ये शिवं, त्वत्तो दर्शनमाप्तवान् द्विघटिकं तेनोद्यमः कारितः। श्रुत्वेन्द्रप्रमुखा इति व्यतिकरं जाता दृढा दर्शने, तद्भो भव्यजना ! भवद्भिरपि तच्चिने चिरं स्थाप्यताम् ॥३३॥ इति श्री मुद्रित-उपदेशसप्ततिकाया वृत्तितः उद्धृता श्रीहालिककथा संपूर्णा १४ श्री नन्दिमणीकार कथा भवन्ति पुंसां जिनपादवन्दना-ऽभिसन्धिमात्रादपि सौख्यसम्पदः । विवन्दिपुर्वीरजिनं स दर्दुरो-ऽप्यभून्महर्द्धिस्त्रिदशो यथा दिवि ॥१॥ पुरे राजगृहे नन्दि-मणिकारः समृद्धियुक् । श्रीवीराद्धर्ममासाद्य, तमेवं कुरुतेऽन्वहम् ॥ १॥ सामायिकप्रतिक्रान्ति-पौषधप्रमुखाः क्रियाः । मुमुक्षुरिव कुर्वाणः, समयं गमयत्यसौ ॥२॥ गृहीतपौषधो ग्रीष्मे-ऽन्यदा रात्रौ तृषार्दितः । उपवासत्रयप्रान्ते, स इत्थं हृद्यचिन्तयत् ॥ ३॥ कापीकूपादिकान वारि-पूरितान् कारयन्ति ये । तेषामेव प्रशस्या श्रीः, सर्वजन्तूपकारिणी ॥४॥ पौषधं पारयित्वाथ, प्रातनिर्मितपारणः । कारयामासिवानेष, वापीमनुपमाकृतिम् ॥ ५॥ | ॥२८॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy