________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
र्णवः
हालिक कथा
॥२७॥
继器端器端端端端端盛端盖继器等器端晓晓晓端柴晓器義盛
यः पुरः प्रेक्ष्यते वत्स !, वराकोऽयं कृषीवलः । त्वत्तस्तस्य महांल्लाभो, भावी तद्गच्छ सत्वरम् ॥२॥ तत्तथेति प्रतिपद्य, गौतमस्तत्र जग्मिवान् । आलापितो हली भद्र !, समाधिस्तव वर्तते ॥ ३ ॥ कस्मात्करोषि पापानि, हल वाहयसि मुधा । वराको वृषभावेतो, दुर्बलौ मा कदर्थय ॥ ४॥ कथं पापकुटुम्बार्थ-मात्मानर्थे निपात्यते ? । तपस्यापोतमादाय, तदुत्तर भवाम्बुधिम् ॥५॥ इति तद्वाक्यपीयूष-देवदग्ध इव टुमः । सिक्तः समुल्लसत्प्रीति-रभूदिति च तं जगौ ॥६॥ अहं विप्रो वसाम्यत्रा-ऽऽसन्नग्रामेऽतिनिर्द्धनः । पापश्रेण्य इवाध्यक्षाः, सन्ति मे सप्त कन्यकाः ।। ७॥ वजाग्निकल्पा पत्नी मे, तया दग्धः करोमि किम् ? । दुष्पूरोदरपूर्त्यथै, मूढः किं न विधीयते ॥ ८॥ अतः परं त्वमेवासि, भ्राता माता पिताऽथवा । यदादिशसि तत् कुर्वे, करिष्ये नान्यथा वचः ॥९॥ ततोऽर्पितः साधुवेषः, स्वीचक्रे सोऽपि तं तदा । चचाल तं सहादाय, गौतमोऽमिजिनं मुदा ॥१०॥ सोऽवादीद्गम्यते कुत्र?, गुरखो यत्र सन्ति मे । भवतामपि पूज्यानां, ये पूज्यास्ते तु कीदृशाः ? ॥ ११॥ तस्याग्रेऽर्हद्गुणाः प्रोक्ता-स्तेन सम्यक्त्वमर्जितम् । विशिष्य तु जिनेन्द्रस्य, समृद्धेवलोकनात् ॥ १२ ॥ क्रमेण यावदद्राक्षीत् , श्रीवीरं सपरिच्छदम् । तावत्तस्य हृदि द्वेषः, कोऽप्यभूदतिदारुणः ॥ १३ ॥ गौतमः प्राह वन्दस्व, श्रीजिनं सोऽपि तं जगौ । अयं गुरुस्त्वदीयश्चे–त्तदा मे न प्रयोजनम् ॥ १४ ॥ गृहाण वेषं यास्यामि, शिष्यो नास्मि तवाप्यहम् । इत्युक्त्वा त्यक्तवेषोऽसौ, मुष्टिं वध्वा प्रनष्टवान् ॥ १५॥ हसन्ति सर्वेऽपीन्द्राद्या-स्तादृक्तच्चेष्टितेक्षणात् । अहो ! उपार्जितः शिष्यो, वरीयानिन्द्रभूतिना ॥ १६ ॥
蒸蒸蒸密蓬蓬號聯盛蹤器雖然继继盛號聯曉曉錄器器樂器
॥२७॥
For Private and Personal Use Only