________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जेन कथा
कपिलके वलि कथा
॥२४॥
聯继游游遊樂器藥端曉榮盛發業继器端张继器端端带磁带我
विषमिश्रदधिप्राप्ति-स्तव तन्मा ग्रहीस्ततः । इत्यूचे च मुनि देवी, ततः सोऽपि तदत्यजत् ! ॥ २२ ॥ विना दधि व्याधिवृद्धौ, भूयः साधुस्तदाददे । तद्विषं च सुरी प्राग्व-जहार व्याजहार च ॥ २३ ॥ तृतीयवारमप्येवं, देवतापाहरद्विषम् । तद्भक्तिरागविवशा-ऽभ्रमत्तत्पृष्ठतश्च सा!॥ २४ ॥ अन्यदा च प्रमत्तायां, देव्यां सविषमेव सः । बुभुजे दधि भोव्यं हि, भवत्येव यथातथा ! ॥२५॥ ततोऽङ्गव्याकुलतया, ज्ञात्वाऽऽत्मानं विषाशिनम् । चकारानशनं साधुः, समतारससागरः! ॥ २६ ॥ त्रिंशद्दिनान्यनशनं, पालयित्वा समाहितः । केवलज्ञानमासाद्य, स राजर्षिः शिवं ययौ ॥ २७॥
इति श्री मुद्रित-उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धृता इति श्री उदयनराजर्षिकथा संपूर्णा
१२ श्री कपिलकेवलिकथा तथाहि पुर्यां कौशाम्ब्यां जितशत्रुमहीशितुः । पुरोधाः काश्यपाहोऽभू-द्विद्याम्भोनिधिपारगः ॥१॥ यशस्विनीयशा नाम्नी, तस्यासीत्प्राणवल्लभा । अजनिष्ट तयोः सूनुः क्रमेण कपिलाभिधः ॥२॥ कपिले च शिशावेव, विपेदे काश्यपोऽन्यदा । कालः कालमकालं वा, न हि मृत्योरपेक्षते ॥३॥ मृते तस्मिन्नृपोऽन्यस्मिन् , पुरोहितपदं न्यधात् । अस्तङ्गते खौ तेजः, प्रदोष इव दीपके ॥ ४ ॥
華港柴晓晓滥遊蒂號露蒂遊聯籌號號號路號號號號路晓
॥२४॥
For Private and Personal Use Only