________________
Shri Mahavir Jain Aradhana Kendra
जैन कथा र्णवः ॥२३॥
www.kobatirth.org
भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा । सोऽध्यासीदित्यसौ सम्पत्, प्रारुपुण्यैः सङ्गतास्ति मे ॥ ६ ॥ पुण्यार्जनाय भूयोऽपि प्रयत्नं विदधे ततः । विनार्जनां हि क्षपिते, मूले स्याद्दुःस्थता भृशम् ! ॥ ७ ॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतमाददे । कर्मकक्षमधाक्षीच्च, सत्तपोजातवेदसा ॥ ८ ॥ समासहस्राणि दशातिबाह्य, सर्वायुषा श्रीहरिषेणचक्री । घातिक्षयाज्ज्ञानमनन्तमाप्य, भेजे महानन्दमनिंद्यकीर्त्तिम् ॥९॥ इति श्री मुद्रित - उत्तराध्ययनाष्टादशमध्ययनवृत्तितः उद्धता इति श्री हरिषेणचक्रिकथा संपूर्णा
११ श्री उदयनराजर्षिकथा चरित्रम
अन्यदोदायननृपः, पौषधौकसि पौषधी । धर्मजागरिकां जाग्र- द्रजन्यामित्यचिन्तयत् ॥ १ ॥ धन्यास्ते नगरग्रामा-करद्रोणमुखादयः । पवित्रयति यान् श्रीमान् वर्द्धमानो जगद्गुरुः ! ॥ २ ॥ श्रुत्वा वीरविभोर्वाणीं, श्राद्धधर्मं श्रयन्ति ये । दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥ ३ ॥ तच्चेत्पुनाति पादाभ्यां पुरं वीतभयं विभुः । तदा तदन्तिके दीक्षा--मादाय स्यामहं कृती ! ॥ ४ ॥ तच्च तच्चिन्तितं ज्ञात्वा चम्पातः प्रस्थितः प्रभुः । एत्य वीतभयोद्याने, समवासरदन्यदा ॥ ५ ॥ श्रुत्वाऽथ नाथमायात-मुदायननृपो मुदा । गत्वा नत्वा देशनां च निशम्येति व्यजिज्ञपत् ॥ ६ ॥
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
उदयनरा जर्षि कथा
॥ २३ ॥