________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
梁晓晓晓聯號继继茶器聯端端端端樂张继器端端端柴聯聚
शरीरमन्तरुत्पन्नाधिभिर्विविधैरिदम् । दीर्यते दारुणैर्दारु, दारुकीटगणैरिव ॥ ३३ ॥ बहिः कथश्चिद्यतत्परोच्येत तथापि हि । नैयग्रोधं फलमिव, मध्ये कृमिकुलाकुलम् ॥ ३४ ॥ रुजा लुम्पति कायस्य, तत्कालं रूपसम्पदम् । महासरोवरस्येव, वारिसेवालवल्लरी ॥ ३५॥ शरीरं श्लथते नाशा रूपं याति न पापधीः । जरा स्फुरति न ज्ञानं धिग् स्वरूपं शरीरिणाम् ॥ ३६॥ रूपं लवणिमा कान्तिः, शरीरं द्रविणान्यपि । संसारे तरलं सर्व, कुशाग्रजलबिन्दुवत् ।। ३७ ॥ अधश्वीनविनाशस्य, शरीरस्य शरीरिणाम् । सकामनिर्जरासारं, तप एव महत्फलम् ॥ ३८ ॥ इति सजातवैराग्यभावनः पृथिवीपतिः । प्रव्रज्यां स्वयमादित्सुः, सुतं राज्ये न्यवीविशत् ॥३९॥ गत्वोद्याने सविनयं विनयन्धरमूरितः । सर्वसावधविरतिप्रधान सोऽग्रहीत्तपः ॥ ४० ॥ महाव्रतधरस्यास्य, दधानस्योत्तरान गुणान् । ग्रामाद्यामं विहरतः समतैकाग्रचेतसः ॥४१॥ गाढानुरागवन्धेन, सर्व प्रकृतिमण्डलम् । पृष्ठतोऽगाकरिकुलं, महायूथपतेरिख ।। ४२ ॥ (युग्मम् ) निष्कषायमुदासीन, निर्मम निष्परिग्रहम् । तं पर्युपास्य षण्मासान , कथञ्चित्तन्यवर्त्तत ॥ ४३ ॥ यथाविध्यात्तभिक्षाभिरकालापथ्यभोजनैः । व्याधयोऽस्य ववृधिरे, सम्पूर्णेदोंहदैखि ॥ ४४ ॥ कच्छृशोषज्वरश्वासारुचिकुक्ष्यक्षिवेदनाः । सप्ताधिसेहे पुण्यात्मा सप्तवर्षशतानि सः ॥ ४५ ॥ दुम्सहान सहमानस्य, तस्याशेषपरीहान् । उपायनिरपेक्षस्य, समपद्यन्त लब्धयः ॥ ४६॥ अत्रान्तरे सुरपतिः, समुद्दिश्य दिवौकसः । हृदि जातचमत्कार-श्रकारेत्यस्य वर्णनम् ॥ ४७ ।।
長榮器聯张露馨馨藥器端柴柴柴柴柴柴柴柴柴柴弟弟樂樂:
For Private and Personal Use Only