________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैनकथा
णेवः
***
|श्रीऋषभदेवचरित्रम्
॥८॥
श्रावकाणां तिस्त्रो लक्षाः, सहस्राः पञ्च चाभवन् । श्राद्धीनां चतुःपञ्चाशत्सहस्रा लक्षपञ्चकम् ॥ २१७॥ सहस्राः पञ्च पादोनाः स्युश्चतुर्दशपूर्विणाम् । ते विशतिः केवलिनामवधिज्ञानिनां नव ॥ २१८ ॥ षट्शती वैक्रियवतां, विस्तीर्णमति-वादिनाम् । सार्दानि षट् शतानि स्युः, सहस्त्रा द्वादश क्रमात् ॥ २१९॥ द्वाविंशतिसहस्त्राः स्युरनुत्तरोपपातिनाम् । शतानि नव चेत्येष, विशेषोऽर्हत्परिग्रहे ॥ २२० । आर्षभिर्भरतक्षेत्रं, साधयित्वाऽखिलं बलात् । षष्टिवर्षसहस्रेण, निजं पत्तनमीयिवान् ॥ २२१ ॥ चक्रे चक्रित्वाभिषेकोऽस्य भूपैर्वादशाब्दिकः । बन्धून् सर्वांश्च सस्मार, भ्रातृस्तत्राप्यनागतान् ॥ २२२ ॥ ततो दूतमुखेनाऽऽहाष्टानवत्यनुजन्मनः । समेत्य भ्रातरः सेवां, कुर्वन्तु मम साम्प्रतम् ॥ २२३ ॥ तेऽपि तद्वचसा क्रुद्धा, दण्डस्पृष्टा इवोरगाः । दध्युः कथमनात्मज्ञः, सोऽस्मान् हा ! सेवकीयति ? ॥ २२४ ॥ पितरं राज्यदातारं, पृच्छामस्तदुपास्तये । ध्यात्वेति सर्वे सम्भूय, सम्पापुः पितुरन्तिकम् ॥ २२५ ॥ प्रभुणाऽभाणि भो भद्राः!, अनुत्तरसुरेवलम् । पूर्व स्मरत यद् भुक्तं, सुखं विषयनिस्तुषम् ॥ २२६ ॥ तुच्छासारैः सुखैरेभिः, कियती तृप्तिमाप्स्यथ । अङ्गारकारकस्येव ?, कोऽसावीशेति कथ्यताम् ।। २२७ ॥ प्रभुराह पुरा कश्चिद् दृतिमात्रपयाः पुमान् । जगामाङ्गारकान् कर्तु, दृष्टकाष्ठाकुले वने ॥ २२८ ॥ ग्रीष्मातिरेकतः सूर्य-चह्नितापात् तृपादितः । पीत्वा पयोऽखिलं सोऽगाद् वेगाद्, गेहं मुमूर्च्छ च ॥ २२९ ॥ स्वमे पयः पयोराशि-नदी-कूप-नदोद्भवम् । पीत्वाऽप्यतृप्तो जीर्णैकमनूपं कूपमैक्षत ।। २३० ॥ तृणपूलकलनाम्बुपिन्दून लिहन् स जिह्वया । कथं तृप्यति भो भद्राः ! ?, भवन्तोऽप्येवमेव हि ॥ २३१॥
***
*
For Private and Personal Use Only