________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
तत्पादान् ये यथायथमवगम्येदं निःश्रेयससाधनाय सफलयेयुः श्रुतोदीरितम्, व्यवस्थादि च ज्ञानोद्धारकोशद्रविणादिविषयं मुद्रितपूर्व मुद्रितपूर्वेष्विति न तत्रायासः ॥
Acharya Shri Kailassagarsuri Gyanmandir
मुद्रणे चास्याभूत्पुस्तकमेकं मूलाधारभूतमस्मदीयं वैकमवर्षीयषोडशशतीयं शुद्धतमं द्वितीयं च त्यक्तसुगतिमार्गमूललुम्पकलुम्पकानुगतदुण्ढक कुमार्ग श्रीमदानन्दविजयपादानां शिष्यवैरेर्ज्ञानकोश विस्तारप्रयतैः श्रीमत्कान्तिविजय मुनिभिः प्रहितं शुद्धतममेव, कृतेऽप्यत्र | शोधनादिप्रयासे सुलभत्वाच्छद्मस्थस्खलनस्य दृष्टिदोषादक्षरयोजकदोषाद्वा यत्किञ्चिद्भवेदशुद्धिजातं तद्वाच्यं शोधयित्वा कृपापरैः सत्कृपामभिलाषुकेषु श्रमणसङ्घपादपद्मचञ्चरीकेष्वस्मास्खिति प्रार्थयामहे सन्मार्गसज्ज सज्जनजनतासमीपगाः ।
सूरते सुरपस्पर्धिराज्ञि धार्मिकराजिते ।
लेखः प्रास्तावि सद्धर्मानन्दैर्लेखसुखाकरैः ॥ १ ॥ समुद्र - स-नन्दानं (१९६७) मिते विक्रमहायने । ज्येष्ठामूळे रवौ तिथ्यामेकादश्यांमुदीरितः ॥ २ ॥ युग्मम्
For Private and Personal Use Only