________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
णेवः ॥१०७॥
*लोभपिण्ड
सुव्रतमुनि
कथा
語錄樂器蹤器器誘继幾露露聽器發器骤器盖盖继器器樂器
देवदत्तो जगादेत्थं, हास्यमेष करोति मे निजाभीष्टं मुने ! बहि, यथाशक्ति करोमि तत् ॥ २१ ॥ गुडमिश्रां घृतेनाक्तां, देहि सेवतिकां तदा । याचितो मुनिनेत्थं स, स्वीकृत्योत्थाय चाऽचलत् ॥ २२ ॥ अवस्थाप्य मुनि द्वारे, भार्या कार्यान्तरच्छलात् । प्रेषयित्वाऽन्यतः सर्व, मुनये याचितं ददौ ॥ २३ ॥ प्रसन्नः क्षुल्लकः पश्चात् , स्वनासाघर्षणेन ताम् । नासिकाघर्षणाय स्त्री, संज्ञयाऽसूचयद्रूतम् ।। २४ ॥ परावृत्य ततो हृष्टो, गुणं लब्धि निजां भृशम् । मुनीनामग्रतो भूयो, भूयो गर्वादवर्णयत् ॥ २५ ॥ एकदाऽऽलोचनाकाले, पृष्टोऽसौ गुरुणा पुनः । मूलोत्तरगुणाः क्वापि, खण्डिताः किं त्वया वद ॥ २६ मया सेवतिकाहेतो,-महानाडम्बरः कृतः । क्षुल्लकः प्रत्युवाचेत्थं गुरोः सत्यं वचस्तदा ॥ २७ ॥ श्रुत्वा प्राह गुरुः शिष्य !, मानपिण्डः सुसाधुभिः । वर्जनीयः सदा सर्वे,-विषयाननुरागिभिः ।। २८ ॥ आलोचनां ततो लात्वा मानपिण्डेऽसुको:मुनिः । सुश्रामण्ये सदा सक्तः चिरं विहृतवान् भुवि ।। २९ ॥
७७ लोभपिण्डे सुव्रतमुनिकथा चम्पापुरे मुनिः कश्चि,-दासीच्छीसुव्रताभिधः । ययौ प्रथमपौरुष्या, गौचरी नेतुमाश्रमात् ॥ १॥ भ्रमन् ददर्श पुर्यन्तः, जायमानां प्रभावनाम् । स्वजनादौ तदा सिंह-केसरमोदकस्य सः ॥ २॥ दृष्ट्वा हृदि व्यचारयत् , सिहकेसरमोदकाः । ग्राह्या मयेति निश्चित्य, भिक्षाथै तत्र जग्मिवान् ॥३॥ प्राप्तो न मोदकस्तस्मा,-निविण्णस्याटतो मुनेः । मध्याइसमयो जातः, केसरानेव ध्यायतः॥४॥
॥१०७॥
For Private and Personal Use Only