________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrm.org
Acharya Shri Kailassagarsuri Gyanmandie
जैन कथा
णवः ||७||
| भद्रमहर्षि
कथा
经聯蒂蒂蒂器端端謠樂器器鉴號號號號號號號柴柴音
तद्रजोहरणं च द्राग, भवितव्य नियोगतः । पुरः पुरन्दरयशो-देव्या गृधो न्यपातयत् ॥ ५४ ॥ तच्चादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् । काम्बलं खण्डमद्राक्षी-भ्रातुः प्रव्रजतोऽर्पितम् ॥ ५५ ॥ चिह्वेन तेन च ज्ञात्वा, सोदरादीन् मुनीन हतान् । महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥ ५६ ॥ रे साधुद्विष्ट ! पापिष्ठ !, विनक्ष्यत्यधुना भवान् । महर्षीणां सुराणां च न झवज्ञा शुभावहा! ॥५७॥ इत्युदियेति दध्यौ चा-धुनाऽहं व्रतमाददे । अलं संसारवासेना-ऽमुना दुःखौघदायिना ! ॥ ५८॥ चिन्तयन्तीति सा देवैः, सुव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! ॥ ५९ ॥ ज्ञात्वाऽथाऽवधिना प्राच्य, स्ववृत्तं स्कन्दकामरः । क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥ ६॥ ततोऽरण्यमभूदेश-भूमौ दण्डकिभूपतेः । अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ ६१ ॥
एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एप सोढः ।। सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ ६२॥ इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता स्कन्दकाचार्यकथा संपूर्णा.
४६ तृणस्पर्शपरीषहे भद्रमहर्षिकथा श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः । भद्राभिधोऽभवत्सूनुः, सात्त्विकेषु शिरोमणिः ॥ १ ॥ मुनीनामन्तिके जैनं, धर्म श्रुत्वा विरक्तधीः । स प्रव्रज्यामुपादत्त, क्रमाच्चाऽभूबहुश्रुतः॥२॥
॥
७
॥
For Private and Personal Use Only