________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
जैन कथा
| धर्मशर्ममुनिकथा
णव: ॥५९॥
ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसाप्यदीनैः ॥ ३५ ॥
इति श्रीमुद्रित-उत्तराध्ययनवृत्तितः उद्धता
हस्तिमित्रकथा संपूर्णा.
३७ तृट्परिपहे धर्मशर्ममुनिकथा अभूदुञ्जयिनीपुर्य्या, धनमित्राभिधो वणिक । धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥ १॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान धनः । पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥२॥ स्वस्मिन् परे च सहितो, सहितौ तौ प्रतिव्रजैः । प्रस्थितावेलगपुराऽवनि मध्यान्दिनेऽन्यदा ॥३॥ तदा च भीष्मग्रीष्मार्क-करसम्पाततापितः । पिपासापीडितो बालः, स चचाल शनैः शनैः ॥४॥ मुनयोऽन्येऽग्रतो जग्मु-धनमित्रमुनिः पुनः । पश्चाच्चचाल सनोस्तत्-प्रेमपाशनियन्त्रितः॥५॥ मार्ग तत्राययौ रंग-तरङ्गाथ तरङ्गिणी । ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमोदभार ॥६॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यणे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? ॥७॥ तदिदानी नदीनीरं, पीत्वोदन्या निहन्यताम् । निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥८॥ यदुक्तं-'निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ।
發器端端端藥鱗器幾端端樂端端端端端樂樂樂器器錄器錄器端
॥५९॥
For Private and Personal Use Only