SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा धर्मराजकथा वः ॥३९॥ 张张张张张张张张张张张器端端部张张张张密法 चिरायुस्ते सुतो भूयात्साम्राज्यं त्वं च पालय । परीक्षेयं मया चक्रे, इत्युक्त्वा सा तिरोऽभवत् ॥ ४०॥ एवं न्यायः पालनीयो नृपाधैर्यस्मात्सर्वाः सम्पदो हस्तगाः स्युः। शस्यानि स्युः किं विना वारिखाह, प्रावृट्काले प्राच्यमासद्वयोत्थम् ॥४१॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता यशोवर्मनृपकथा संपूर्णा. २२ धर्मोपरि श्री धर्मराजकथा श्रीधर्म एव निधिरक्षय एष सौख्य-श्रीणां हितः स्वपरयोश्च भवान्तरेऽपि । श्रीधर्मराजचरितं विनिशम्य सम्यक्, कस्तत्र वा शिथिलमादरमातनोति ॥१॥ अस्त्यत्र भरतक्षेत्रे, नगरी सर्वमङ्गला । तत्र वित्रासिताराति-भूपतिर्भद्रशेखरः ॥१॥ सभामध्यास्त स मापः, परिवारयुतोऽन्यदा । तदा नैमित्तिकः कोऽपि, प्राप्तस्तत्र त्रिकालवित् ॥ २॥ यथोचितासने राज-दापिते स उपाविशन् । उदस्य हस्तं सर्वेभ्यः, आशीर्वादमुवाच च ॥३॥ नृपोप्राक्षीनिमित्तज्ञ !, भविष्यद्वद कीदृशम् ? । स्वरूपं भावि सोऽप्याह, माधुना पृच्छयतां प्रभो!॥४॥ विशेषतो नृपोऽपृच्छ-दुत्पातः कोऽपि दैवतः ? । कि भावी ? सोऽप्यभाषिष्ट, दुर्भिक्षं द्वादशाब्दिकम् ॥५॥ 學弟弟弟弟张举茶器茶鉴茶婆婆翠翠亲张躲躲张张张继器 ॥३९॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy