________________
६२
श्रीसिंहतिलकसरिविरचितं सौभाग्यमुद्रयाऽऽत्मनि सौभाग्यं वनमुद्रया रसाः । अक्षाः प्रणवाकृतयः कला कपीति पश्चपूज्यपदी ।।
॥ इति श्रीसिंहतिलकसूरिविरचिते मन्त्रराजरहस्ये पूजादिरहस्यम् ।।
६२१
६२२
ग्रन्यकर्तुः प्रशस्तिः। इत्यवचिन्त्य बहुश्रुतमुसपनेभ्यो मयाऽऽत्मसंस्मृत्यै । गणभृन्मन्त्ररहस्यं गणितमिदं दिशतु गणलक्ष्मीम् ॥ मतमिति गुरुमुखतो यन्मन्त्रोच्चारणे भवन्ति बहुभेदाः । तत्रास्मन्मतमेतत् सद्गुरुवचनं प्रमाणमिह ॥ श्रीवियुधचन्द्रगणभृच्छिष्यः श्रीसिंहतिलकसरिरिदम् । लीलावत्या वृत्त्या सहितं विदये श्रियं दिशवाम् ।। संयतगुंग-त्रयोदश (१३२७)वर्षे दीपालिकापर्यसदिवसे । साइलाददेवतोज्ज्वलमनसा पूर्ति मयेदमानीतम् ॥ ॥ इति श्रीयशोदेवभूरिशिप्यश्रीविबुधचन्द्रसूरि
शिष्यश्रीसिंहतिलकसूरिभिमन्त्रराजरहस्यं रचितम् ॥
॥ग्रन्थानम् ८००॥ ॥श्रीमन्त्राधिराजकल्पः संपूर्णः ।।
६२५