________________
[ १२९
मन्त्रराजरहस्यम् । जातीपुप्पयुतैः शालितन्दुलैः सत्फलैरपि । जप्ता दशांशहोमेन प्रीणिता कुरुते न किम् ? ।। ३६ ।। एतद्विद्यान्तरोद्भूतखण्ड विद्याफलान्यथ । वक्ष्यामि जैनसिद्धान्तरहांसि स्मरणाकृते ॥ ३७॥ 'सत्त्व'शब्दं विना विद्या गुरुपश्चकनामभूः ।
द्वष्टाक्षरात्महत्पने गर्भ देवो निरञ्जनः ॥ ३८ ॥ यद्वा-"अर्हत-सिद्धाचार्योपाध्याय-सर्वसाधुभ्यो नमः॥"
हृदम्युजे इमां विद्या संस्कृतैः पोडशाक्षरे । लभते द्विशतीं ध्यायन चतुर्थतपसः फलम् ॥ ३९ ॥ 'अरिहंत-सिद्ध शब्दाजपन विद्यां पडक्षरीम् । शतत्रयेण लभते चतुर्थतपसः फलम् ॥ ४० ॥ 'अरिहंत'चतुर्वर्ण जपन् ध्यानी चतुःशतीम् । लभते दृष्टजनात्मा चतुर्थतपमा फलम् ॥ ४१ ॥ 'अ'वर्ण तु सहस्रार्ध(५००) नाभ्यब्जे कुण्डलीतनुम् । ध्यायनात्मानमाप्नोति चतुर्थतपसः फलम् ॥ ४२ ।। गुरुपश्चकनामाद्यमेकैकमक्षरं तथा। नोभी मूर्टिन मुंखे कण्ठे हेदि स्मर क्रमान्मुने! ।। ४३ ।। 'अ'वर्ण नाभिपद्मान्ते 'सि'वर्ण तु शिरोऽम्बुजे। , 'सा' मुखाम्बुजे 'आ' कण्ठे 'उ'कारं हृदये स्मर ।। ४४ ॥
मन्त्राधीशः पूज्यैरुक्तोऽसौ किन्तु देहरक्षायै। शीर्ष-मुख-कण्ठ-हर-पदक्रमेण 'असिआउसा' स्थाप्याः ॥ ४५ ॥ प्रणवः पञ्चशून्यान्यग्रे 'असिआउसा नमः। अस्याभ्यासादसौ सिद्धिं प्रयाति गतवन्धनः ॥ ४६ ॥ शाम्यन्ति जन्तवः क्षुद्रा व्यन्तरा ध्यानपातिनः । तद् वक्ष्येऽष्टदिक्पत्रे गर्भ सूर्यमहः स्वकम् ॥ ४७ ॥ 'नमो अरिहंताणं' क्रमात् पूर्वादिपत्रगम् । मत्याशमेकमेकाहः एकादशशतीं जपेत् ।। ४८॥