________________
१२४ ]
थीसिंधतिलरिविरचितं
१४. परिशिष्टम् । श्रीमन्वाधिराजगभितश्रीगौतमस्वामिस्तवनम् ।
नमोऽस्तु श्री-ही-ति-कीर्ति-घुद्धि-लक्ष्मीविलासैमानिकतनाय । श्रीवीरपट्टाम्बरमासराय लोकोत्तमाय प्रभुगौतमाय ॥ १॥
कारमक्षीणमदानसानां श्रीमन्तममुन्नम्भतयामभावैः। हीमन्तमात्मानुगवन्दनेनार्डन्तं नमस्यामि तमिन्द्रभूतिम् ॥ २ ॥ उनिद्रसौवर्णसहस्रपतगर्भस्थसिंहासनसनिपण्णम् । दिव्यातपत्रं परिवीज्यमानं सचामरैश्वामररानसेव्यम् ।। ३ ॥ कल्पद्रु-चिन्तामणि-कामधेनुसमाननामानममानशक्तिम् । अनेकलोकोत्तरलब्धिसिद्धं श्रीगौतमं धन्यतमाः स्मरन्ति !॥ ४ ॥ एकैच पड्दर्शनकनीनिका पुराण-वेदागमजन्मभूमिका । आनन्दचिद्ब्रह्ममयी सरस्वती सदेन्द्रभूतेधरणोपसेविनी ॥ ५॥ सदा चतुप्पष्टिमुरेन्द्रमानसव्यामोहिनी पमहदाधिरासिनी । सर्वाहिशृङ्गारतरङ्गितद्युतिः श्रीगौतमं श्रीरपि वन्दते त्रिधा ॥ ६ ॥ जया-जयन्ती-विजया-ऽपराजिता-नन्दा-सुभद्राप्रमुखः मुरीजनः । प्रतिक्षणोजागरभूरिविभ्रमः श्रीगौतमं गायति गाहगौरवः ॥७॥ मानुपोत्तरगिरेः शिरःस्थिता दो सहस्रसुभगा महाप्रभा । गीतगौतमगुणा त्रिविष्टपस्वामिनी शिवशतं दधातु मे ॥ ८॥ यक्षपोडशसहस्रनायको दिव्यविंशतिभुजो महाबलः । द्वादशाइसम्याधिदेवता गीतमस्मृतिजुपां शिवङ्करः ॥९॥ ईशाननाथेन समं शतक्रतुः सनत्कुमाराधिपतिः मुरान्वितः । श्रीब्रह्मलोकाधिपतिश्च सेवते सगौतम मन्त्रवरं पदे पदे ।। १० ।। अष्टनागकुलनायको मणिमोल्लसत्फणसहस्रभासुरः । गौतमाय धरणः कृताञ्जलिमन्त्रराजसहिताय वन्दते ॥ ११ ॥ रोहिणीमभृतयः सुराङ्गना वासवा अपि परे सदायवाः । गौतम मनसि यक्ष-यक्षिणीश्रेणयोऽपि दधती मुनीश्वरम् ॥ १२॥