________________
मन्त्रराजरहस्यम् 1
[ १२१
कान्ताः शिवाप्तौ तत्र लब्धयस्त्वां दुःखाद् भ्रमन्त्यः किल चीक्ष्यमाणाः । नामापि शृण्वन्ति तवेश ! यन खत्कण्ठयेवानुसरन्ति तं द्राक् ॥ १२ ॥ तवाऽऽतपस्यासमयात् कराजे जज्ञे निलीना खलु केवलश्रीः । दीक्षामिषाद् यन्न्यदधा यदीयशिरस्सु तं ते द्रुतमापुरेताम् ॥ १३ ॥ त्वयाऽऽत्मनो वीरजिनाधिपेनाऽभेदस्तथाऽध्यायि वशेन भक्तेः । अनन्तचिद्-दर्शन-चीर्य-सौख्यलाभात् तदात्मैव विभो ! यथाऽभूः ॥ १४ ॥ शिवश्रियः कोऽपि दृढोऽनुरागस्त्वयीश ! सौभाग्यरमात्मकेऽहो ! | नामाऽपि यत् ते जपतः प्रबुद्धानेपाऽसिलान् प्रापयतेश ! शर्म ॥ १५ ॥ त्वदीयभक्तेः शिवशलक्ष्म्या मैनी प्रभो ! काऽपि परा नवीना । स्वाधारकान् भव्यजनान् गुणाढ्याँस्तस्यै पतीन् सा हि ददात्यशेपान् ॥१६॥ न के पदार्थों बहवो महान्तस्तर प्रभावे तु विचिन्त्यमाने । पृथ्वी न पृथ्वी न गिरिर्गरीयान् नान्धिर्महीयान्न नभोऽप्यदभ्रम् ॥ १७ ॥ विदन्ति मानं जलधेर्भुवो वा केचित् कथञ्चिनभसोऽपि विज्ञाः । न ते प्रभावे पुनरस्ति मानं भान्त्यमाना अपि किं तदार्थाः ! ॥ १८ ॥
ब्रह्मास्पदं वा कमलापदं वा वदन्तु पद्मं तर पाढयोऽस्तु । अनाप्य माहात्म्यरमा तु तस्यै निषेवतेऽम्बूनि सदा तपस्वी ॥ १९ ॥ भोः! भोः ! श्रिये किं व्यवहार खेदैराराधितैः किं बहुमन्न-तन्त्रैः । किं दैवतोपासनकर्मभिश्च श्रीगौतमं ध्यायत नाथमेकम् ॥ २० ॥ पुरा यथा गौतम ! तापसादिकान् मिथ्यामतादुद्धरसि स्फुरत्कृपः । तपस्क्रिया-संयम-योगदुर्बलं भवावटान्मामपि तद्वदुद्धर ॥ २१ ॥ भवाद् विभेम्युत्कटदुःखराशेर्धर्तुं द्विशे न च योगशुद्धिम् । गतिर्न मेऽन्याऽस्ति ततः शिवेच्डोस्त्वमेव तदेहि कृपा मयीश ! ॥ २२ ॥ भावद्विषो ये निहतास्त्वयेश 1 ते व्यन्तरीभूय भवद्रदेव । निरौजसं त्वत्कुलजं समीक्ष्य मां पीडयन्तीति मुनीन्द्र ! रक्ष ॥ २३ ॥ गणिवर ! तव सद्गुणैकलीनं भवतु मनो मम गौतमाविरामम् । विजस्तु तदिमे कषायमुख्या रिपुनिकराथ मयीति सुप्रसीद ॥ २४ ॥