________________
सप्तमाङ्गस्य विवरणे
कुण्डकोलिकस्तन्मतदूषणाय विकल्पवयं कुर्वन्नाह । तुमे पर्मित्यादिपूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रव्यं इति । त्वयायं दिव्यो देवा दिगुण: केन हेतुना लवः, किमुत्थानादिना, उदाहु त्ति अहोश्वित् अनुत्थानादिना तपोब्रह्मचर्यादौनामकरणेनेति भावः । यद्युत्थानादेरभावेनेति पक्षो गोशालकमताश्रितत्वाद् भवतः, तथा येषां जीवानां नास्त्यत्थानादि तपश्चरणकरण मित्यर्थः, ते इति जीवाः किं न देवाः ?। पृच्छतो ऽयमभिप्रायः । यथा त्वं पुरुषकारं विना देवः संवत्तः स्वकीयाम्यपगमतः, एवं सर्वजीवा ये उत्थानादिवर्जितास्ते देवाः प्राप्नुवन्ति, न चैतदेवमिष्टमित्युत्थानाद्यपलापपक्षे दूषणम् । अथ वयेयं ऋधिरुत्थानादिना लब्धा । ततो यदद मि “सुन्दरा गोशालकप्रज्ञप्तिरसुन्दरा महावीरप्रज्ञप्तिः” इति, तत्ते तव मिथ्यावचनं भवति तस्य व्यभिचारादिति ॥
॥ १७० ॥ ततो ऽसौ देवस्तेनैवमुक्तः सन् शङ्कितः संशयवान् जातः, “किं गोशालकमतं सत्यमुत महावीरमतम्”? । महावीरमतस्यर युतितो ऽनेन प्रतिष्ठितत्वादेवंविधविकल्पवान् संवृत्त इत्यर्थः ।। काशितो महावीरमतमपि साध्वेतद्यक्त्यपेतत्वादिति विकल्पवान् संवृत्त इत्यर्थः ॥ यावत्करणानेदमापन्नो मतिभेदमुपागतो गोशालकमतमेव साध्विति निश्चयादपोढत्वात् ॥ तथा कलुषं समापन्नः
१f एमित्यादौ पू०। २ ef चित् । ३f धिरुपस्थानादि ना। ४e गोसालक० । ५ ॥f भवतव। ६ e महावीरस्थ, om. मत। e ममापि । af ० त्यपपेतत्वादिति। . भेदसमापनो।