________________
देशीनाममाला अलग्ग कलङ्कारोपः। अलिणो वृश्चिकः। अंबुसू सरभः। अक्कुट्ट अध्यासितम्। अंकियं तथा अवलंडियं परिरम्भः। अवरुंडिअशब्दस्य पञ्चाक्षरस्याप्यनुरोधात् वाक्षरेषु पाठः। अन्यथा हिरर्थकीर्तनं स्यात् । अयं च यद्यपि क्रियाशब्दः। अवरुड अवरुडिज्जइ अवरुंडिऊण इत्यादिप्रयोगयोग्यश्च । तथापि पूर्वाचार्येर्धात्वादेशेषु न पठित इत्यस्माभिरपि तदनुरोधातत्रापठित्वेह निबद्धः ॥ यथा।
अकुट्ठकोवअंबुसुअलिणाण भयम्मि केवलमलग्गं । महिलावरंडियाओ बौहंति विवेअअंकिया मुणिणो ॥८॥ (११) खग्गम्मि अणप्यो अल्लो परिचिए पसुम्मि अक्कोडो। कयलौद्र 'असारा आवणे अवारो अवारौ य ॥१२॥ अणप्पो खन्नः। अल्लो परिचितः। अक्कोडो छागः। असारा कदली। अवारो तथा अवारी आपणः ॥ यथा।
णिव मा अक्कोडअसारअल्लयं कुण अणप्पमिमिण हि। .. भरिआ अरिकरि मुत्ताहिं दिसि अवारा विदिसि अवारीश्रो ॥८॥ (१२) मोरे अल्लल्लो 'कुक्कुडे अलंपो अआलि दुद्दिणए। "णिमेहम्मि अखो अञ्झस्सं सवियमक्खए अणहं ॥१३॥
___ अल्लल्लो मयूरः। अलंपो कुक्कुटः। अलि दुर्दिनम्। अालीति इकाराम्तो लुप्तविभक्त्यन्तो निर्देशः। अअंखो नि:स्नेहः। अज्झस्सं आक्रुष्टम् । अयं धात्वादेशः। 'अज्झस्मइ। अज्झसियं इत्यादिप्रयोगदर्शनात्। पूर्बाचार्यानुरोधात्त्विह निबदः। अणहं अक्षतम् ॥ यथा ।
अणहो अालिमत्ताल्लल्ल सु वि तं अअंख पियपासं। गंतुमसहो अलंपो व्व अप्पमज्झस्मइ त्ति पहियजणो॥१०॥ (१३)
____1B असारो. 20 अ. 80 मुत्ताहि. 4AB कुकुडी अलंयो. 5AB निद्रेहम्मि अयंखो. ___6 B अझसि. TAB °लिमत्ता.