________________
प्रवर्तक-मुनिश्रीयशोविजयविरचिता
॥ १६. श्रीमहावीरचित्रकाष्टकम् ॥
शक्तिबन्धः भगवान् भुवनाधीशो, धीशो धैर्यगुणे नगः । गभस्तिर्मोहविध्वंसे, पापाद् वीरोऽवतात् स माम् ॥१॥
हलबन्धः वीरं नमामि विश्वेशं, तं शंवप्रभुमीश्वरम् । रम्यसूक्तिजगद्बोधं, सर्वज्ञं वरकेवलम् ॥२॥
हलबन्धः वीरं धर्मप्रदातारं, वारं दोषततेर्वरम् । रङ्कोद्धारकरं देवं, वन्देऽहं देवदेवनम् ॥३।। जय भवभयहरणचरणकमल !, जय कनकभ ! जय वरजनशरण! । जय समसहमददवदहनदक!, जय वरजनभरनतततपदक! ॥४॥
समासगुप्तम् प्रबलमदनदावं घोरमोहप्रतानं, प्रकुपितमदकालव्यालसङ्घप्रचारम् । भववनमधिभव्यश्रेणिसौख्याय यस्या-ऽभिभवति शरणं स त्रायतां वोऽथ वीरः ॥५॥
गोमूत्रिकाबन्धः सम्पदानपरं वन्दे, लोकजालस्य पालिनम् । विपन्मानहरं मन्दे, शोकजालस्य पातिनम् ॥६।।
पद्मबन्धः (अयं गोमूत्रिकाबन्धेऽपि) जिन ! श्रीन ! घनध्यान!, च्छिन्नमान ! घनस्वन! । घनदीनजनग्लान-जनसन्नतनन्दन! ॥७॥
प्रथमान्तबन्धः विश्ववयत्राणनिबद्धचेताः, कुबोधविध्वंसनवाग्विलासः ।
तृष्णातमस्संहरणो मुनीशः, श्रीवीरदेवः सुखदः सदाऽस्तु ॥८॥ ॥ इति श्रीसहृदयहृदयारविन्दविकासनसवित्रीयमाण-सकलजनमनोऽन्तस्तापप्रशमनप्रपीयूषायमाण-भीष्मभववनभ्रान्तिक्लान्तिमच्छान्तिदानैककल्पतरूयमाण-श्रीमद्विजयनेमिसूरीश्वराचार्यवर्यचरणचञ्चरीकायमाण
प्रवर्तकयशोविजयविरचितं श्रीमहावीरचित्रकाष्टकं समाप्तम् ।।