________________
प्रकीर्णरचनासन्दोहः
३५१
॥ ११. श्रीगुरुदेवस्तवनम् ॥
- श्रीविजयपद्मसूरिः
अर्हद्भास्करकेवलीन्दुविरहेऽस्मिन् भारते विश्वसत्-तत्त्वाविष्कृतितत्परः प्रविशदाकूतप्रकाशान्वितः । उद्दधे भविकान् भवान्धुपतितान् सद्देशनारज्जुतो, यस्तं मद्गुरुनेमिसूरिममदं वन्दे मुदाऽहर्निशम् ॥१॥ प्राप्यन्तेऽनुपमोत्सवाः प्रतिदिनं भव्यैर्यदाख्यास्मृतेः, सच्चारित्रपवित्रदेहमसुभृद्भद्रङ्करं सर्वदा । कर्मस्तम्बलवित्रसाम्यनिलयं प्रस्थानसंसाधकं, तं श्रीमद्गुरुनेमिसूरिमनिशं ध्यायामि सद्भावतः ॥२॥ योगक्षेमकरं सदैव विधिना नव्यार्थलब्धार्थयोः, प्राप्तित्राणविधौ क्रमेण भुवने दीपं प्रदीपाननम् । पञ्चाचारप्रपालनैकनिपुणं श्रीमत्तपागच्छपं, निस्तन्द्रं प्रगुरुं नमामि सततं श्रीनेमिसूरीश्वरम् ॥३॥ सत्त्वे यस्य निरस्तवीर्यप्रसरास्तीर्थान्वयास्तस्करा-स्तत् सत्यं खलु भास्करे समुदिते चन्द्रादितेजः कियत् । सौभाग्यादिगुणावलि गणयितुं शक्तो न वाचस्पति-स्तं चिन्तामणिजित्वरं प्रणिदधे श्रीनेमिसूरीश्वरम् ॥४॥ यो निर्मान्यपि मान्यकोविदकुलैः सन्मानितां प्रापितो, योऽनङ्गारतिकारकोऽपि विमलानङ्गार्थसंसाधकः । निःसङ्गोऽप्युपकारदीनकरुणाद्यैः सद्गुणैः सङ्गवान्, तं कुर्वे प्रणिधानगोचरमहं श्रीनेमिसूरीश्वरम् ॥५॥ कालेऽस्मिन् गणधारिगौतम इव प्रौढप्रभावाञ्चितो, भूपालेभ्यगणैर्गुणैकरसिकैरिज्योऽपि नम्रश्च यः । आयोपायविचक्षणः श्रमणसङ्घापायनिस्फेटक-स्तं वन्दे ममतावितानरहितं श्रीनेमिसूरीश्वरम् ॥६॥ न्यायव्याकरणादिबोधकलिता यस्य प्रभावाद् ध्रुवं, सम्यग्दृष्टिमहाव्रतादिसहिता दीनानुकम्पाभृतः । सप्तक्षेत्रधनव्ययादिनिरता जाता ह्यनेकेऽङ्गिन-स्तं भक्त्या सततं मुदा प्रणिदधे श्रीनेमिसूरीश्वरम् ||७|| विज्ञातः स्वपरार्थशास्त्रविसरो येनाऽऽशु बुद्धेर्बलाद्, यः पञ्चातिशयैर्युतोऽत्र जयति स्थानाङ्गपाठानुगैः । चित्तं सद्गुणनिर्गुणेऽपि समतां यस्याऽन्वहं सङ्गतं, नित्यं सोऽपि तनोतु मङ्गलतति श्रीनेमिसूरीश्वरः ।।८।। प्राक् पर्वण्यपि यो बभूव सबलो नैकाशनेऽपि व्रते, सञ्जातोऽखिलशास्त्रयोगकुशलो यस्याऽनुभावादहम् । सिद्धान्तार्थरहस्यमप्यवगतं भक्त्या मयाऽन्तःस्थया, तं नौमीप्सितदानकल्पविटपिश्रीनेमिसूरीश्वरम् ॥९॥ वक्तुं शक्तिमती न मेऽपि रसना यस्योपकारावलिं, ध्येयो यो मयि निर्गुणेऽपि प्रगुणो भद्रोन्नतौ सर्वदा । आत्मोद्धारक एक एव मम सोपाधेर्भवाम्भोधित-स्तीर्थोद्धारपरायणो जयतु स श्रीनेमिसूरीश्वरः ॥१०॥
80