________________
षष्ठाध्यायस्य प्रथमः पादः ॥
२५
[सौमनसः ] सुष्ठु मनो यस्य सः = सुमनाः । सुमनसोऽपत्यं = सौमनसः । 'अश्वादेः' (६।१।४९) इत्यस्य प्राप्तौ 'ऋषि-वृष्ण्य०' (६।१।६१) अण्प्र० । 'वृद्धिः स्वरे०' (७।४।१) वृ० औ ।
[लौगवः ] लिगु । लिगोरपत्यम् । 'गर्गादेर्यज्' (६।१।४२) इत्यस्य प्राप्तौ 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र०।
[शारद्वतः] शरद्वत् । शरद्वतोऽपत्यम् । 'विदादेर्वृद्धे' (६।११४१) इत्यस्य प्राप्तौ 'ऋषि-वृष्ण्यन्धक-कुरुभ्यः' (६।१।६१) अण्प्र० ।
इतः प्रभृति गोत्र इत्यधिकाराद् गोत्रे संभवति ततोऽन्यत्र प्रतिषेधः ।
अयमर्थः - ये शब्दा गोत्रेऽगोत्रे च वर्तन्ते तेभ्यो गोत्र एव प्रत्ययो भवति, न त्वगोत्रे, ये च गोत्रार्थे न संभाव्यन्ते ततोऽगोत्रार्थेऽपी भवत्येव ॥छ।।
वर्मणोऽचक्रात् ॥ ६।१।३३ ॥
[वर्मणः] वर्मन् पञ्चमी ङसि ।
[अचक्रात् ] न चक्रम् = अचक्रम्, तस्मात् ।
[ऐन्द्रवर्मिः] इन्द्र 'वृगट वरणे' (१२९४) वृ । इन्द्र एनं वृषीष्ट । 'तिक्कृतौ नाम्नि' (५।१।७१) मन्प्र०। 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । इन्द्रवर्मणोऽपत्यम् = ऐन्द्रवर्मिः । अनेन इप्र० → इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० ऐ । 'अवर्णेवर्णस्य' (७।४।६८) अन्लोपः ।
[चाक्रवर्मणः] चक्रं एनं वृषीष्ट । 'तिक्कृतौ नाम्नि' (५।१७१) मन्प्र० । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । चक्रं वर्म यस्य । चक्रवर्मणोऽपत्यं = चाक्रवर्मणः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० - अ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अवर्मणो मनोऽपत्ये' (७४/५९) इति वर्मणो वर्जनात् अनो न लुक् ॥ छ ।
अजादिभ्यो धेनोः ।। ६।१।३४ ।। [अजादिभ्यः]अज आदिर्येषां ते = अजादयः. तेभ्यः । [धेनोः] धेनु पञ्चमी ङसि ।
[आजधेनविः ] अजा चासौ धेनुश्चेति कार्यम् । 'पोटा - युवति - स्तोक-कतिपय - गृष्टि - धेनु - वशा - वेहद् - बष्कयणी - प्रवक्तृ - श्रोत्रिया-ऽध्यापक - धूर्त - प्रशंसारूढर्जाति' (३।१।१११) इति समासः । न तु अजा एव धेनवो यस्येति । तदा 'स्वाङ्गान्ङीर्जातिश्चाऽमानिनि' (३।२।५६) इति पुंवन्निषेधः स्यात् । अजधेनु । अजधेनोरपत्यम् = आजधेनविः । अनेन इप्र०→ इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७।४।७०) अव् ।
[बाष्कधेनविः ] बष्कधेनोरपत्यं = बाष्कधेनविः । अनेन इप्र०→ इ । 'वृद्धिः स्वरे०' (७।४।१) वृ० आ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ॥ छ ।
ब्राह्मणाद्वा ।। ६।१।३५ ॥ [ब्राह्मणात् ] ब्राह्मण पञ्चमी ङसि ।
प्रश० म० न्या० - अजा शब्द आदिर्यस्य गणस्य सोऽयमजादिः । अथवा अजाशब्द आदौ येषां शब्दानां ते अजादयः शब्दाः, तेभ्यः ।