________________
षष्ठाध्यायस्य प्रथमः पादः ॥
[औदपानम् ] उदक 'पां पाने' (२) पा । उदकं पीयतेऽस्मिन्निति । 'करणा-ऽऽधारे' (५।३।१२९) अनटप्र० → अन । 'नाम्न्युत्तरपदस्य च' (३।२।१०७) उदकस्य उदभावः । उदपानस्येदम् = औदपानम् । अनेन अप्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । सि-अम् ।
अणपवादे च -[औत्सः] उत्सस्यापत्यम् = औत्सः । अनेन अप्र० → अ । 'वृद्धिः स्वरे'० (७४।१) वृ० औ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[औदपानः] उदपानस्यापत्यम् = औदपानः । अनेन अप्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।
[तारुणः, तालुनः] तरुण 'वयस्यनन्त्ये' (२।४।२१) ङी । 'अस्य ड्यां लुक्' (२।४।८६) अलुक् । तरुण्या अपत्यं = तारुणः-तालुनः । अनेन अप्र० → अ । 'वृद्धिः स्वरे'० (७।४।१) वृ० आ । 'अवर्णेवर्णस्य' (७४।६८) ईलुक् । 'ऋफिडादीनां डश्च लः' (२।३।१०४) लत्वं विकल्पेन ।
[पाञ्चालः] पञ्चाल । पञ्चालेषु भवः = पाञ्चालः । अनेन अप्र० → अ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
औत्स इति 'अत इब्' (६।१।३१) इब् प्राप्नोति, तारुण इति 'ङसोऽपत्ये' (६।१।२८) इत्यस्य बाधको 'ड्याप्त्यूङः' (६।१।७०) इत्येयण् । पाञ्चाल इति 'ईतोऽकञ्' (६।३।४१) इत्यधिकारे भवार्थे 'बहुविषयेभ्यः' (६।३।४५) इत्यकञ् प्राप्नोति ।
ननु यद्यणपवादेऽप्यञ् भवति कथं तर्हि कौरव्य इति ? इत्याह - कुरोरपत्यं = कोरव्यं(व्यः) । राष्ट्रक्षत्रियवाचकस्य 'दु-नादि-कुवित्-कोशला-ऽजादाभ्यः ' (६।१।११८) ब्राह्मणवाचकस्य 'कुरोर्वा' (६।१।१२२) ('कुर्वादेर्व्यः') (६।१।१००) ज्यप्र० । 'वृद्धिः स्वरे'० (७४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् इति ज्यविधौ कुरुशब्दस्योपादानस्यानवकाशत्वात् भवति । __[कौरवः ] कुरोरपत्यं = कौरवः । अत्र अर्थविवक्षायां अनेनैव अञ् भवति । 'वृद्धिः स्वरेष्वादेफ्रिति'० (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् ।
उत्तरत्र बष्कयशब्दस्य समासे प्रतिषेधादुत्साद्यन्तस्यापीह प्रत्ययः, तेन -
[गौधेनवम्] गावश्च ता धेनवश्च = गोधनवः । 'पोटा-युवति-स्तोक-कतिपय-गृष्टि-धेनु-वशा-वेहद्-बष्कयणीप्रवक्तृ-श्रोत्रिया-ऽध्यापक-धूर्त्त-प्रशंसारूढैर्जातिः' (३।१११११) कर्मधारयः । गोधेनुभ्य आगतं = गौधेनवम् । 'तत आगते' (६।३।१४९) इति अण्प्राप्तोऽनेन अप्र० → अ । 'वृद्धिः स्वरेष्वादेफिति तद्धिते' (७।४।१) वृ० औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । सि-अम् । अन्यथा रूप्यमयटौ स्याताम् । 'नृ-हेतुभ्यो रूप्य-मयटौ वा' (६।३।१५६) इत्यनेन ।
अच्छन्दसीत्यादयो ग्रीष्मादीनामर्थनिर्देशार्थः सप्तम्यन्ताः ।
[भल्लकीयः] भलि (८१२) - 'भल्लि परिभाषण-हिंसा-दानेषु' (८१३) भल्लू । भल्लते इति भल्लकः । 'णक-तृचौ' (५।१।४८) णकप्र० → अक। भल्लकाय हितः । 'तस्मै हिते' (७१।३५) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् ।