________________
षष्ठाध्यायस्य तृतीयः पादः ॥
२९७
[साहदेवकः] सह 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । सह दीव्यतीति सहदेवः । 'लिहादिभ्यः' (५।१५०) अच्प्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ऐ । सहदेवं भजति = साहदेवकः । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आ । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् ।
[दौर्योधनकः] दुर् 'युधिंच् सम्प्रहारे' (१२६०) युध् । दुःखेन युध्यते = दुर्योधनः । 'शासू-युधि०' (५।३।१४१) अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ । दुर्योधनं भजति = दौर्योधनकः । अनेन अकञ्प्र० → अक । 'वृद्धिः स्वरे०' (७४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१७२) स० → र० ।
[दौःशासनकः] दुर् 'शासूक् अनुशिष्टौ' (१०९५) शास् । दुःखेन शास्यते(शिष्यते) = दुःशासनः । 'शासू-युधि०' (५।३।१४१) अनप्र० । दुःशासनं भजति = दौःशासनकः । अनेन अकप्र० → अक । 'वृद्धिः स्वरेष्वादे०' (७।४।१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → २० ।
बहुवचनं क्षत्रियविशेषपरिग्रहार्थम्
[पाणिनीयः] पण । पणोऽस्यास्तीति पणी । 'अतोऽनेकस्वरात्' (७२।६) इन्प्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । पणिनोऽपत्यं = पाणिनः । 'ङसोऽपत्ये' (६।१।२८) अण्प्र० → अ । 'वृद्धिः स्वरेष्वादेफिति०' (७४।१) वृद्धिः आ । पाणिनं भजति = पाणिनीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७।४।६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ।
[पौरवीयः] पुरु । पुरोरपत्यं = पौरवः । 'पुरु-मगध०' (६।१।११६) अण्प्र० → अ । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः औ । 'अस्वयम्भुवोऽव्' (७४/७०) अव् । पौरवं भजति = पौरवीयः । 'दोरीयः' (६।३।३२) ईयप्र० । 'अवर्णेवर्णस्य' (७४/६८) अलुक् । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० ॥छ।।
सरूपाद् द्रेः सर्वं राष्ट्रवत् ।। ६।३।२०९ ।। [सरूपात्] सरूप पञ्चमी ङसि । [द्रेः] द्रि षष्ठी ङस् । [सर्वम् ] सर्व प्रथमा सि । 'अतः स्यमोऽम्' (१।४।५७) अम् । 'समानाद०' (१।४।४६) अलुक् । [राष्ट्रवत् ] राष्ट्रस्येव = राष्ट्रवत् । 'स्यादेरिवे' (७१।५२) वत्प्र० । प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
[वृजिकः] वृजि मण्ड्यते । वृजीनां राजा, राजानौ, राजानः । वृजेरपत्यं-अपत्ये-अपत्यानि वा = वार्त्यः, वाज्यौं, वृजयः । 'दु-नादि-कुर्वित्-कोशला-ऽजादाभ्यः' (६।१।११८) ज्यप्र० । 'वृद्धिः स्वरे०' (७।४।१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) इलुक् । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) ज्यलुप् । वायू, वाज्यौँ, वृजीन् वा भजति = वृजिकः । 'वृजि-मद्राद् देशात् कः' (६।३।३८) कप्र०-वाय॑स्य वृजिश्चादेशः ।
[मद्रकः] मद्र मण्ड्यते । मद्राणां राजा, राजानौ, राजानः । मद्रस्यापत्यं-अपत्ये-अपत्यानि वा = माद्रः, माद्रौ, मद्राः । 'पुरु-मगध०' (६।१।११६) अण्प्र० । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४) अण्लुप् । माद्रं, माद्रौ, मद्रान् वा भजति = मद्रकः । 'वृजि-मद्राद् देशात् कः (६।३।३८) कप्र०-माद्रस्य मद्रश्चादेशः ।।
[पाण्डवकः] पाण्डु मण्ड्यते । पाण्डूनां राष्ट्रस्य राजा, राजानौ, राजानः । पाण्डोरपत्यं-अपत्ये-अपत्यानि वा = पाण्ड्यः , पाण्ड्यौ , पाण्डवः । 'पाण्डो यण' (६।१।११९) ड्यणप्र० → य । बहुत्वे 'बहुष्वस्त्रियाम्' (६।१।१२४)
Shrenik/DIA-Shilchandrasuri/Doondhika Part-5 Folder (10-9-2012)Doondhika Part-6 (C) 1st • 30-7-2013 (2nd-16-9-2013)
(3rd-3-10-2013) [297]|